कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुनर्भू

punarbhūस्त्री · fem.

In 12 kośas: 12 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.237 · p. 24
दिधिषूस्तु पुनर्भूर्द्विरूढास्या दिधिषूः पतिः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.23
पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ।स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.485 · p. 55
अर्द्धवृद्धा तु या नारी सा कात्यायनिका स्मृता ।पुनर्भूर्दिधिषूः प्रोक्ता वृषस्यन्ती रतार्थिनी ॥ ४८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.61 · p. 165
स्त्रियौ पुनर्भू-वर्षाभ्वौ ह्रस्वमण्डलपत्रिका ।विशाखो रक्तवृन्तः स्याद्रक्तपुष्पक एव च ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 205
आचार्यानी चाथ पुनर्भूरुक्ता दिधिषूरपि ।या द्विरूढा पतिस्त्वस्याः पुनर्भूदिधिषूरसौ ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 35 · p. 17
बन्धकी कुलटा मुक्ता पुनर्भूः पुंश्चली खला ।स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.94 · p. 37
गुर्विणी चाथ संप्रोक्ता विवाहद्वयसंस्कृता ।दिधिषूश्च पुनर्भूश्च दिधिषुश्चापि कथ्यते ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.41 · p. 3
मनस्विनी बहुमना आर्य्योदारस्वभाविनी ।बन्धकी कुनटा मुक्ता पुनर्भूः पुंश्चली खला ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.495 · p. 122
पुनर्भूश्च द्विरूढा स्याद् दिधीषूर्दिधिषूस्तथा ।
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.162 · p. 93
दिधीषु दिधिषुश्चैव पुनर्भूर्दिधिषूस्तथा ।द्विरूढायां स्त्रियामेतत् भवेदेवं चतुष्टयम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1220 · p. 149
परिवित्तिस्तु तज्ज्यायान् परिवित्तः कुरी च सः ।पुनर्भूः पुनरूढा स्यादूर्मिला त्यक्तभर्तृका ॥ १२२० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.45 · p. 86
या ज्येष्ठायामनूढायामूढाग्रेदिधिषूरसौ ।पुनरूढा पुनर्भूः स्यादूर्मिला त्यक्तभर्तृका ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.

पुनर्भू as a meaning in nānārtha verses