कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अत्यर्थ

atyarthaवि · adj.

In 10 kośas: 7 synonym verses, 12 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.67
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.719 · p. 83
अत्यर्थमतिमर्यादमतिवेलं च कथ्यते ।व्यवधानं तिरोधानमन्तर्धिरपवारणम् ॥ ७१९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.27 · p. 5
निह्नवस्त्वपलापे स्यात्संदेशे वाच(चि?)कं गिरि ।अत्यर्थं संगतं सात्वं सरसं च मनोहरम् ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.107 · p. 45
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2741 · p. 446
अत्यर्थमऽतिमर्यादरमतिमात्रं दृढं तथा ॥ २७४१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.157 · p. 11
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.131 · p. 211
अतिमात्रेऽतिमर्यादमतिवेलातिमानकम् ।भृशमत्यन्तमत्यर्थमधिकोद्गाढनिर्भरम् ॥ १३१ ॥
अनुष्टुप्
genderविadj.

अत्यर्थ as a meaning in nānārtha verses