All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
अव्ययवर्गः · सान्ताः
॥ सपादः ॥
सु पूजायां तथाधिक्ये आस्तु स्यात्कोपपीडयोः ।[शनैः] शनैश्चरे स्वैरे नीचैः स्वैराल्पयोः स्मृतम् ॥
34.20.1 · p. 243
अनुष्टुप्
तिरोऽन्तर्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो [रहः] ।पुरोऽग्रेऽपि प्रथमे स्यादञ्जसा तत्त्वशीघ्रयोः ॥
34.20.2 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 थ (wrong syllable)
॥ सार्धश्लोकः ॥
निर्निश्चये निषेधे च साकल्यातीतयोरपि ।मुहुः पुनः [पुनः] ख्यातः प्रकृतेऽर्थे त्वनव्ययम् ॥
34.20.3 · p. 243
अनुष्टुप्
पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरः ।अभितः कार्त्स्न्योभयाग्रेषु शीघ्रसांनिध्ययोरपि ॥
34.20.4 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्