कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रत्याख्यात

pratyākhyātaवि · adj.

In 10 kośas: 9 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.127 · p. 55
कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥कीर्णमाकीर्णं च पूर्णे त्वाचितं छन्नपूरिते ।भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ ॥प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.40
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.703 · p. 81
प्रत्याख्यातं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् ।निरस्तमपविद्धं च प्राज्ञाः परिहृतं विदुः ॥ ७०३ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.80 · p. 223
प्रत्याख्यातः प्रतिक्षिप्तः पत्यादिष्टोपविद्धवत् ।निरस्तश्चाप्यधिक्षिप्तस्तुल्यौ विक्लवविह्वलौ ॥ ८० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.70 · p. 8
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ।अपविद्धोऽथ भग्नेच्छः प्रतिबद्धो मनोहतः ॥ ७० ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.354 · p. 96
पूरितं भरितं व्याप्तं निचितं छन्नसंज्ञके ।प्रतिक्षिप्तनिरस्ते तु प्रत्याख्यातनिराकृते ॥ ३५४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2679 · p. 433
अपविद्धं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् ।प्रत्याख्यातं निरस्तञ्च षड्नामानि हि सन्ति वै ॥ २६७९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.102 · p. 185
द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते ।प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च ज्योतिषि ॥ १०२ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 च (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1689 · p. 203
प्रत्याख्यातो निरस्तः स्यान्निर्वातो वातवर्जिते ।पाके क्वथितनिष्पक्वे स्याद्दुग्धहविषोः शृतम् ॥ १६८९ ॥
अनुष्टुप्
genderविadj.

प्रत्याख्यात as a meaning in nānārtha verses