कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संकीर्ण

saṃkīrṇaवि · adj.

In 10 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.127 · p. 55
कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥कीर्णमाकीर्णं च पूर्णे त्वाचितं छन्नपूरिते ।भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ ॥प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.2 · p. 202
आचण्डालं तु संकीर्णा अनुलोमविलोमजाः ।त्रिष्वङ्कपाशन्यायेन नखस्था अनुलोमजाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.146 · p. 230
संकीर्णाकीर्णके चाथ तते विसृतविस्तृते ।अन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥ १४६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.96 · p. 85
मध्येन मध्यमाभ्यां वा पात्राभ्यां स प्रयोजितः ।शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.23 · p. 24
संकीर्णं कीर्णमाकीर्णमाकुलं च प्रकीर्णवत् ।पूनं विनष्टमाबर्हितं तून्मूलितमुद्धृतम् ॥ २३ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.105 · p. 21
उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ।एकवर्णाः स्ववर्णाः स्युर्हीनवर्णास्तु जुङ्गिताः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.353 · p. 95
अश्रान्तानवरते[ऽपि?] सततं संततं समम् ।आकीर्णं? संकुलं कीर्णं संकीर्णेऽथाकुलं मतम् ॥ ३५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.108 · p. 45
संकुलाकुलसंकीर्णाकीर्णसंबाधसंकटाः ।परीतं निचितं व्याप्तं दिग्धलिप्ताक्तगुण्डिताः ॥ १०८ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.2 · p. 153
भवेन्महति शूद्रादौ ग्रामकूटमहोत्तरौ ।अतश्चाण्डालपर्यन्तं संकीर्णाकरणादयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.65 · p. 254
सततं चानवरता-ऽविरते स्यादनारतम् ।सङ्कुले त्वाकुलं कीर्णं समाङ्भ्या कीर्णमित्यपि ॥ ६५ ॥
अनुष्टुप्
genderविadj.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.2 · p. 72
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.110 · p. 210
अवरीणो धिक्कृतः स्याद्दृब्धे ग्रथितमुद्रितौ ।संकीर्णे संकुलाकीर्णौ विस्तृते विसृतं ततम् ॥ ११० ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.7 · p. 49
कुर्वाणः कारके भृत्ये धर्मणोऽहिद्रुभेदयोः ।संकीर्णौ निचिताशुद्धौ द्रविणे वित्तविक्रमौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.38 · p. 199
संकीर्णं प्रमथान्तरेऽश्वतरके नागे मृगेऽनामिका-ङ्गुष्ठोन्मानगतश्च पुंसि गदितो गोकर्ण एवं बुधैः ।मूर्वायां वनितारणिस्तु मिथुने निर्मथ्यकाष्ठे पुमां-स्तर्क्वायांशरणिः स्त्रियां च सरणिः पङ्क्तौ तथा वर्त्मनि ॥ ३८ ॥
शार्दूलविक्रीडितम्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.66 · p. 211
संकीर्ण निश्चिते व्याप्ते स्यादशुद्धे तु वाच्यवत् ।सरणिः पथि पंक्तौ स्त्री सारणो रोगरक्षसोः ॥
अनुष्टुप्