आचित
ācitaपुं · masc.In 14 kośas: 19 synonym verses, 5 as a nānārtha head word.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥कीर्णमाकीर्णं च पूर्णे त्वाचितं छन्नपूरिते ।भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ ॥प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।
अनुष्टुप्
genderविadj.
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
आचितं निचितं व्याप्तं छन्नं कीर्णं च सङ्कुलम् ।आकुलं भरितं पूर्णं नातिनानार्थवाचकाः ॥ ७०२ ॥
अनुष्टुप्
genderविadj.
आचितः पुंसि वा क्लीबे द्वयं वा दशभारिकम् ।मानभेदे भरः पुंसि सहस्रद्वितयैः पलैः ॥ ५२४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपाचितो नमसितोऽचित आचित इत्यपि ।विसृत्वरो विसृमरो विकासी तु विकस्वरः ॥ ६५ ॥
अनुष्टुप्
genderविadj.
स्रस्तं ध्वस्तं स्कन्नभृष्टे गलितं निचिताचिते ।अपवाहितं स्थगितं पिहितान्तर्हिते समे ॥ १७० ॥
metre not recognised
genderविadj.
स्यात्तु[142b]लाविंशतिर्भार आचितो दशभारकः ।शाकटीनः * * * [शाकट]श्च शलाटश्चाचितोऽपि सः ॥ १५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्भा (syllables merged)
genderपुंmasc.
पूर्णं तु पूरितं स्याद्भरितं निचितं तथोभितं व्याप्तम् ।आचितमप्याच्छन्नं स्यात्पुनरुद्वान्तमुद्गतं तुल्यम् ॥ ४५ ॥
गीतिः
genderविadj.
ज्ञेयोऽभिनवमृत्पात्रे प्रीतेऽप्याख्यातमित्यदः ।क्लीबं तिङन्ते त्रिस्तूक्तेऽथाचितं स्यान्नपुंसकम् ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
तुलानां विंशतिर्भार आचितः शाकटोऽपि च ।कुडवानां चतुष्केन प्रस्थः स्यात्पुंसलिङ्गकः ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
कार्षापणः कार्षिकश्च पणश्चाचित इत्यपि ।चतुःप्रस्थपरीमाणे त्वाढको द्रोण इष्यते ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
तुला पलशतं ज्ञेयं सुवर्णादिकमापने ।शलाट आचितो भारः शाकटीनश्च शाकटः ॥ १४८६ ॥
अनुष्टुप्
genderपुंmasc.
विंशतितुलामानं तद्द्विसहस्रपलानि च ।दशभारप्रमाणन्तु ज्ञातव्यः आचितः खलु ॥ १४८७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पूर्णञ्च पूरितं व्याप्तं छन्नञ्च छादितं तथा ।आचितं निचितं चैव भरितं चापि कथ्यते ॥ २६७८ ॥
अनुष्टुप्
genderविadj.
दशभाराः आचितः स्याद् भारः शाकट आचितः ।पणस्य तूर्यभागः स्यात् काकनी काकिनीति च ।काकणी काकणिर्वोड्री काकनिः काकिणीत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुला पलशतं ताभिर्विंशत्या भार एव तैः ।आचितः पुंसि दशभिः शाकटो भार आचितः ॥ १४९८ ॥
अनुष्टुप्
genderपुंmasc.
आचितं द्व्याचितं होढं हेलकं समकं समम् ।वाहितं भारितं चाष्टावृक्षाद्दशगुणाः क्रमात् ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
पन्नं प्रपतिते सन्नं लिष्टे तुन्नं तु पीडिते ।निष्पक्वे क्वथितं सोढे क्षान्तं निचितमाचिते ॥ ११५ ॥
अनुष्टुप्
genderविadj.
आचितः शकटोन्मेये पलानामयुतद्वये ।छन्ने च संगृहीते च आचितः समुदाहृतः ॥
अनुष्टुप्
पलायुतानां द्वितये च शाकटेस्यात्संगृहीतेऽपि हिते तथाचितः ।मृषार्थके स्याद्गुणिते च ताडितेमाने पुराणे सिचये तथाहतः ॥ ७४ ॥
upajati 12
आचितः स्यात्त्रिषुच्छन्ने संगृहीते पुमानयम् ।शकटोन्मयकद्रव्ये पलानामयुतद्वये ॥
अनुष्टुप्
आप्तौ लुब्धहितौ दैर्घ्ये भाविकालेऽपि चाऽयतिः ।आचितः शाकटोन्मेयेऽप्यावर्तश्चिन्तनेऽपि च ॥ १४८ ॥
अनुष्टुप्
meaningsशाकटोन्मेय