सुख
sukhaक्ली · neut.In 25 kośas: 29 synonym verses, 9 as a nānārtha head word, 74 as a meaning of another word.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderक्लीneut.
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ २४ ॥स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।
अनुष्टुप्
genderक्लीneut.
प्रमोदप्रमदौ हर्षः प्रीतिरुत्कर्ष उद्धवः ।सम्मदो मुत्तथानन्दः शर्म जोषं च शं सुखम् ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
सौख्यं सुखं शर्मशातमयः शुभफलो विधिः ।संपल्लक्ष्मीश्च संपत्तिर्विपत्तिर्विपदापदौ ॥ १०४ ॥
अनुष्टुप्
genderक्लीneut.
दुःखं दुष्खमपि प्रोक्तं सुकृतं सूकृतं तथा ।भन्दं भद्रमपि प्रोक्तं सुखं सौख्यमुभे समे ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
विक्रमं त्रिश्च दुश्चिक्यं चतुर्थं हि बुकं जलम् ।जननी मातृपातालं बन्धुतूर्यं सुखं सुहृत् ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् ।संपञ्जनेष्टा भूत्यर्था भूतिश्चापि प्रसारिणी ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
क्लीबाव्ययं तु कं जोषमुपजोषमथो सुखम् ।कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् ।भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderक्लीneut.
रिष्टं हितं शर्म सुखं प्रियं चजोषं च कं शं मतमव्ययाह्वम् ।त्रिष्वानु[5a]कूल्येन सुखादिकारीप्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्रि (wrong syllable)
genderक्लीneut.
स्त्रीलिङ्गाऽथ दिवसुखत्रिविष्टपानिक्लीबे स्वर्वदिह स्वरव्ययोऽस्ति ।स्वर्ग्यं स्वः फलमथ तद्भवे च दिव्यम्सौवर्ग्गं भवति [6a] सौवमन्यलिङ्गम् ॥ २ ॥
metre not recognised
genderक्लीneut.
भवेन्मरुवको बीजपुष्पः खुरबुकः सुखः ।रूपिकार्कः क्षीरपर्णो गणरूपो विकीरणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं वसु ।ऋषिसृष्टा सुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
ध्रुवावासो मणिशिलस्तदीयास्तरवः सुखाः ।तत्पादः स्यात्कनखलस्तन्नितम्बे विशालकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हृदन्तःकरणं चेतश्चित्तं स्वान्तं तथोच्चलम् ।संकल्पः स्यान्मनःकर्म सुखं निर्वृतिशर्मणी ॥ २५९ ॥
अनुष्टुप्
genderक्लीneut.
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् ।विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
सुखं सातं तथा शातं शर्म शर्मं च निर्वृतिः ।सौख्यं चेति प्रसिद्धानि सप्त नामानि सन्ति वै ॥ २४९१ ॥
अनुष्टुप्
genderक्लीneut.
प्रमोदो हर्ष इत्येष हर्षपर्याय इरितः ।आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्मुदा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 इ (wrong syllable)
genderक्लीneut.
दुर्वर्णवङ्गजीवनरुद्राश्रुभवानि तुल्यानि ।ताम्रं म्लेच्छमुखं म्लेच्छं सुखं शुल्बमुदुम्बरम् ॥ १४५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मुत्प्रीतिर्हर्ष आनन्दाह्लादानन्दथवः सुखम् ।शर्म शातमलिङ्गे शमयस्तु शुभदो विधिः ॥ २८४ ॥
अनुष्टुप्
genderक्लीneut.
स्वर्गे सुखं च वेगः स्यात्सीता तु सुरदीर्घिका ।अर्कः सुरेश्वरश्चापि सुधायां कञ्जमित्यपि ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
शर्म शातं सुखं सौख्यमयः शुभफलो विधिः ।विधौ दैवं दिष्टभाग्ये विपाको भवितव्यता ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
सुखं दुःखं मलं छिद्रं किलासं सिध्ममर्मरौ ।रभसः पलितं श्वित्रमेतेऽपि त्रिषु धर्मिणि ॥ १४४ ॥
अनुष्टुप्
genderविadj.
अपादाच्छादने वृञ् स्यादपाङस्त्वनधीनके ।निरः सुखे च सौस्थ्ये चास्तं गतावाङ्परो वृतौ ॥
अनुष्टुप्
meaningsनिर्वृ
गन्धवस्तुभिदि पुंस्त्वविहीनेवक्रनिःसरणयोः सदुपाये ।स्यादुपक्रमणवाचि मुखं स्या-त्स्वर्जलेश्वरपुरोश्च सुखं च ॥ ७७ ॥
स्वागता
तनौ च शोणिते चाथ स्यादजे द्वे सुखं तु नप् ।लग्नाद्राशौ चतुर्थेऽप्सु शस्तखे शर्मणि त्रि तु ॥ १५२६ ॥
अनुष्टुप्
तत्साधने शोभनखयुक्तेऽप्यथ सुखा स्त्रियाम् ।शम्भोर्नवानां शक्तीनां शक्तावेकत्र ना पुनः ॥ १५२७ ॥
अनुष्टुप्
सुखहेतौ सुखे सुखम् ॥ १९० ॥
meaningsसुखहेतु
सुख as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् भोगभोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः । Amarakośa 3.3.47
- नामलिङ्गानुशासनम् जोषम्तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने । Amarakośa 3.3.490
- हलायुधकोशः (अभिधानरत्नमाला) कउक्तानामप्यनुक्तानां शब्दानामिह संग्रहः । कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥ Abhidhānaratnamālā (Halāyudha) 5.847
- धरणिकोश कअथ कान्ताः प्रकथ्यन्ते श्लोकस्यार्धेन संप्रति । कं वारि[4]णि सुखे शीर्षे कोऽर्कब्रह्मात्मवायुषु ॥ Dharaṇikośa 1.2.1
- धरणिकोश भोगभोः सुखे च वित्ते च सर्पस्य फणकाययोः । पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ Dharaṇikośa 3.3.7
- धरणिकोश धृतियतिः श्लोकपदच्छेदे यतिः कारे ? यतिर्यती । धृतिधैर्ये च योगे च धारणे च सुखेऽपि च ॥ Dharaṇikośa 15.2.13
- धरणिकोश भद्रभद्रं सुखे च कल्याणे निन्दा कुत्सापवादयोः । सम्पल्लक्ष्म्यां गुणोत्कर्षे शरत्संवत्सरे ऋतौ ॥ Dharaṇikośa 17.1.3
- धरणिकोश भद्रभद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ Dharaṇikośa 26.3.2
- धरणिकोश श्वःश्रेयसवायसी काकमाची स्यादभ्यासो निकटेऽपि च । उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥ Dharaṇikośa 31.1.9
- धरणिकोश जोषम्जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि । साम्प्रतं तु द्वयोरेव [स्याद्यु]क्तार्थाधुनार्थयोः ॥ Dharaṇikośa 34.15.5
- कोषकल्पतरु स्वस्तिप्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके । स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥ Koṣakalpataru 5.1.91
- कोषकल्पतरु जोषम्प्रबाहुकं स्यात्समकाल ऊर्द्ध्वे प्रकारसादृश्यसमार्थमेवम् । जोषं तु तूष्णींभवने सुखे[स्या]- दमा सहार्थे निकटार्थके च ॥ ७ ॥ Koṣakalpataru 5.1.7
- कोषकल्पतरु शम्अलं तु भूषा-प्रतिषेध-शक्ति- पर्याप्ति-वैयर्थ्य-निवारणेषु । शं स्यात्सुखे मङ्गलवाचकं च सं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥ Koṣakalpataru 5.1.9
- कोषकल्पतरु ककः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्के सख्यौ तथा चात्मनि धर्मराजे । दक्षे मयूरे नरि कं तु मौलौ नीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥ Koṣakalpataru 6.1.2
- कोषकल्पतरु खखं सुखेन्द्रियसुरालयबिन्दु- क्षेत्रशून्यसुरवर्त्मपुरेषु । वेदने च कुणहेलफले स्यात् Koṣakalpataru 6.2.1
- कोषकल्पतरु भोगरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
- कोषकल्पतरु वीचिमधौ( ? )शुद्धे परवत् स्त्री तु रुचिः स्यादभिष्वङ्गे । शोभामयूखवाञ्छा- स्ववकाशे तु द्वयोर्वीचिः । स्वल्पतरङ्गे च सुखे- ऽथाभिनये सीवनद्रव्ये । नारीन्द्रिये च सूची शचीन्द्रपत्नी शतावर्याम् । काञ्ची देशविशेषे गुञ्जायां मेखलायां च । षड्ग्रन्थासारिकयो- र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥ Koṣakalpataru 6.5.7
- कोषकल्पतरु शातसुखे कृशे चाथ हितं धृते स्या- त्पथ्ये सुतः पार्थिवपुत्रयोः स्यात् । विशेष्यवच्चाभिषुतेऽथ सूतः प्रसूतसंप्रेरिततक्षसु स्यात् ॥ ८ ॥ Koṣakalpataru 6.16.8
- कोषकल्पतरु शर्मन्योगान्तरेऽप्यृत्विजि भास्वतीन्दौ स्त्रियां तु नाध्यात्मतपःसु तत्त्वे । ज्ञाने परात्मन्यपि तद्वदाहुः शर्मान्तिमे नाम्नि सुखे द्विजे नो ॥ ८७ ॥ Koṣakalpataru 6.21.87
- कोषकल्पतरु शिवशम्यामलक्योरभयाशृगाल्यो- र्गौर्यां द्वयोनस्तु शुभे सुखे च । मोक्षे जले चाथ दिवं च नाके जीवः पुमान्प्राणिनि वृक्षभेदे ॥ ९६ ॥ Koṣakalpataru 6.29.96
- नानार्थार्णवसंक्षेप कम्अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत । कं नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥ Nānārthārṇavasaṃkṣepa 1.5.2
- नानार्थार्णवसंक्षेप तृप्तितूलिः शय्यान्तरे चित्रकूर्चिकायां च सा पुनः । इच्छापिपासयोस्तृष्णा तृप्तिस्तु सुखतोययोः ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 2.1.46
- नानार्थार्णवसंक्षेप वृद्धिवृद्धिस्त्वादैक्षु वृद्धाख्यभेषजे वर्धने सुखे । ऋणातिरिक्तदातव्ये प्रयोक्त्रे पुत्रजन्मनि ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 2.1.102
- नानार्थार्णवसंक्षेप भोगभेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे । रक्षणेऽभ्यवहारे च सर्पस्य फणकाययोः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 2.2.90
- नानार्थार्णवसंक्षेप शक्ष्यशक्ष्यं जले सुखे चाथ शकृद्गोमयविष्ठयोः । जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 2.3.62
- नानार्थार्णवसंक्षेप दिष्टिस्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् । त्रिस्तु द्वेष्टरि मर्त्ये तु द्विपाद्द्वे द्व्यङ्घ्रिके त्रिषु ॥ ६०० ॥ Nānārthārṇavasaṃkṣepa 2.5.600
- नानार्थार्णवसंक्षेप नन्दिपलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना । या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.668
- नानार्थार्णवसंक्षेप भद्रगजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे । एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥ Nānārthārṇavasaṃkṣepa 2.5.880
- नानार्थार्णवसंक्षेप मद्रभूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे । भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.926
- नानार्थार्णवसंक्षेप शुनबले तु क्ली शुनस्तु द्वे शुनि वायौ तु ना नपि । सुखेऽथ शुचिरीशाने सूर्ये चन्द्रेऽग्निशौक्ल्ययोः ॥ १३९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1394
- नानार्थार्णवसंक्षेप श्रूषबले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् । वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1408
- नानार्थार्णवसंक्षेप शेवसुखे धने च शेवा तु निद्राभेदे स्त्रियामियम् । प्रचलासंज्ञके श्वेतस्त्वृषिभेदे नृलिङ्गकः ॥ १४१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1417
- नानार्थार्णवसंक्षेप सातसातं तु क्ली सुखे त्रिस्तु क्षीणेऽपि सतयोगिनि । एतयोरर्थयोः पूर्वे स्त्र्यर्थे साता परत्र तु ॥ १४९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1497
- नानार्थार्णवसंक्षेप स्योनस्योनं तु क्ली सुखे त्रिस्तु साधने तस्य ना पुनः । सूर्ये सूर्यस्य रश्मौ च -- तन्तुसन्ततौ ॥ १५६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1564
- नानार्थार्णवसंक्षेप आनन्दआनकः पटहे भेर्यामपि स्यादस्त्रियामथ । द्राक्षायां स्त्रीत्वं आनन्दी ना त्वानन्दः सुखे भवेत् ॥ १८२ ॥ Nānārthārṇavasaṃkṣepa 4.182
- नानार्थार्णवसंक्षेप भेषजना तु वा- द्वयोस्तु स्यात् कृमिजात्यन्तरेऽथ नप् । भेषजं स्यात् सुखे तोये ह्योषधे तु हि भेषजी ॥ १३११ ॥ Nānārthārṇavasaṃkṣepa 4.1311
- नानार्थार्णवसंक्षेप रतर्धिकअथो रत्नवरं स्वर्णे रत्नानां प्रवरेऽपि च । रतर्धिकं सुखे स्नाने दिनमङ्गलयोरपि ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 6.41
- नानार्थार्णवसंक्षेप अव्यथिषस्याद्बहिष्पवमानस्य द्वितीये च तृचे पुमान् । ना त्वव्यथिष आदित्ये समुद्रे च सुखेऽपि च ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 6.6
- नानार्थार्णवसंक्षेप नन्दयन्तीतत्पुष्पे नन्दयन्तस्तु पुमान् राज्ञि स्त्रियां पुनः । नन्दयन्ती मृडान्यां स्यात् सुवर्णेऽपि सुखेऽपि च ॥ २९६ ॥ Nānārthārṇavasaṃkṣepa 6.296
- परमानन्दीयनाममाला खचन्द्रबिम्बे वर्णखण्डसंवित्स्वर्गसुखेषु च । खो रवौ कथितं गीते गं गस्तु गणनायके ॥ १२ ॥ Paramānandīyanāmamālā 1.12
- परमानन्दीयनाममाला शम्लक्ष्मीप्रभाभारतीषु शं सुखश्रेयसोरपि । शीः स्वापे शुर्निशानाथे षूः प्रसूतौ च षो वरे ॥ ३९ ॥ Paramānandīyanāmamālā 1.39
- परमानन्दीयनाममाला धृतिधृतिः सुखेऽध्वरे धैर्ये संतोषे धारणेऽपि च । कोदण्डस्थलयोर्धन्व धन्वा स्यान्मरुमण्डले ॥ २५५ ॥ Paramānandīyanāmamālā 5.17.255
- परमानन्दीयनाममाला भोगभोगः सर्पफणे सर्पदेहे वेश्याभृतौ सुखे । राज्ये भाण्डं वणिग्मूलवित्ते मण्डनभूषयोः ॥ ३२९ ॥ Paramānandīyanāmamālā 5.20.329
- परमानन्दीयनाममाला शिवशिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः । गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥ Paramānandīyanāmamālā 5.25.355
- परमानन्दीयनाममाला शुभशरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति । शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥ Paramānandīyanāmamālā 5.25.357
- शब्दरत्नावली खखं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि । सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥ Śabdaratnāvalī 7.2.1
- शब्दरत्नावली भोगभोगः सर्पे सुखे देहे धने माने च पालने । सर्पाणां कायफणयोर्योषिद्भरणभोजने ॥ Śabdaratnāvalī 7.3.16
- शब्दरत्नावली वीचिवाग्वाचा च समानार्थे भारतीवचसोः स्त्रियौ । वीचिस्तरङ्गावकाशसुखस्वल्पेषु च द्वयोः ॥ Śabdaratnāvalī 7.6.9
- शब्दरत्नावली कर्मफलअक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥ भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥ एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥ भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ Śabdaratnāvalī 7.28.104
- शब्दरत्नावली शिवशिवः स्वरे हरे योगे कीलके ग्रहवालयोः । मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥ Śabdaratnāvalī 7.29.21
- शब्दरत्नावली श्वश्रेयसवरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
- शब्दरत्नावली कम्कं पादपूरणे नीरे मस्तके मङ्गले सुखे । किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥ Śabdaratnāvalī 8.1.49
- शब्दरत्नावली शम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर स्वर्स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि ॥ ९२ ॥ Śabdaratnākara 6.92
- शब्दरत्नाकर कम्ए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि । ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥ Śabdaratnākara 5.1.2251
- शब्दरत्नाकर सुसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ Śabdaratnākara 5.1.2256
- शब्दरत्नाकर जोषम्तूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे । तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥ Śabdaratnākara 5.2.2268
- तन्त्राभिधान अःअः कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिर्विद्या सुखं मुखम् ॥ ५३ ॥ Tantrābhidhāna 2.17.53
- तन्त्राभिधान यआग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् । चण्डः सर्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥ १४१ ॥ Tantrābhidhāna 2.43.141
- तन्त्राभिधान कक-श्चात्मा च समाख्यातः कः प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखञ्च प्रकीर्त्तितम् ॥ ६ ॥ Tantrābhidhāna 3.6
- त्रिकाण्डशेष ककुलकौ नाककाकेन्दू क आत्मा च सुखं च कम् । पेचके स्त्रीजिते काकरुको कौलेयकः शुनि ॥ १० ॥ Trikāṇḍaśeṣa 3.3.10
- त्रिकाण्डशेष खइन्दुलेखा गुडूच्यां च पूः सुखं स्वर्न्नभश्च खम् । गोमुखं लेपने वाद्यभाण्डे सर्पेऽपि दुर्मुखः ॥ ४९ ॥ Trikāṇḍaśeṣa 3.3.49
- त्रिकाण्डशेष भोगभोगः सुखे धने चाहेः शरीरफणयोरपि । भगं वैराग्ययोनीच्छाज्ञानैश्वर्येषु चेष्यते ॥ ६४ ॥ Trikāṇḍaśeṣa 3.3.64
- त्रिकाण्डशेष वीचिकुक्कुरे रतनारीचः शीत्कारे वरयोषिताम् । केतुग्रहे तु विकचो वीचिः सुखतरङ्गयोः ॥ ७८ ॥ Trikāṇḍaśeṣa 3.3.78
- त्रिकाण्डशेष कर्म्मफलकर्म्मरङ्गतरौ कर्म्मफलं दुःखे सुखेऽपि च । करालो धूनतैलेऽपि देशे केशे च कुन्तलः ॥ ३८९ ॥ Trikāṇḍaśeṣa 3.3.389
- त्रिकाण्डशेष शिवसुखं क्षेमं शिवं शम्यामलकी चाभया शिवा । षाडवस्तु रसे रागे सैन्धको लवणाश्वयोः ॥ ४२४ ॥ Trikāṇḍaśeṣa 3.3.424
- वैजयन्ती दिष्टिदिष्टिः सुखे च दाने च धात्री भुव्युपमातरि । धनुः सुस्त्रीधनुर्ज्यासु धाना बीजेऽपि भूरुहाम् ॥ १९ ॥ Vaijayantī 6.2.19
- वैजयन्ती वृद्धिवृद्धिः सुखेऽपि जंघापि वारुः शुक्तिस्तु दृग्रुजि । अश्वावर्ते च शाला तु गृहांगस्कन्धशाखयोः ॥ ३७ ॥ Vaijayantī 6.2.37
- वैजयन्ती रतर्धिकरतर्धिकं सुखे स्नाने दीनमंगलयोरपि । शब्दशास्त्रे व्याकरणं ज्याटंकारे स्फुटीकृतौ ॥ ११ ॥ Vaijayantī 8.3.11
- वैजयन्ती अव्यथिषसुखाब्ध्यर्का अव्यथिषा अव्यथिष्यौ निशाक्षिती । अवगीतं मुहुर्दृष्टे निर्वादे गर्हितेऽपि च ॥ १ ॥ Vaijayantī 8.5.1
- वैजयन्ती ककाश्चित्तात्मार्कधीधातृवाता मूर्ध्नि सुखेऽप्सु कम् ॥ ३६ ॥ Vaijayantī 8.5.36
- वैजयन्ती कओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च । प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥ Vaijayantī 8.7.3
- वैजयन्ती सुसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । प्रत्यारंभे प्रसिद्धौ ह हा विषादशुगार्तिषु ॥ ८ ॥ Vaijayantī 8.7.8
- वैजयन्ती जोषम्निषेधे वागलंकारे ज्ञीप्सनेऽनुनये खलु । तूष्णीमर्थे सुखे जोषं तर्हि स्यात्प्रश्न उत्तरे ॥ २० ॥ Vaijayantī 8.7.20