संपद्
saṃpadस्त्री · fem.In 10 kośas: 11 synonym verses, 2 as a nānārtha head word, 5 as a meaning of another word.
ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः ॥ ३५७ ॥
अनुष्टुप्
genderस्त्रीfem.
सौख्यं सुखं शर्मशातमयः शुभफलो विधिः ।संपल्लक्ष्मीश्च संपत्तिर्विपत्तिर्विपदापदौ ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
सम्पत्तिः सम्पदा संपल्लक्ष्मीः श्रीर्विपदा विपत् ।विपत्तिरापद्दुःखार्था न द्वयोरायुधं पुनः ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् ।संपञ्जनेष्टा भूत्यर्था भूतिश्चापि प्रसारिणी ॥ ५४३ ॥
अनुष्टुप्
genderस्त्रीfem.
संपत्संवदव्यये द्वे मकरः कर्कटोऽयने ।तुलामेषौ तु विषुवत् विशुवद्द्वे नपुंसके ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderअindecl.
ऋद्धिः संपत् संपदास्त्राब्धिभूति-र्भूतिर्लक्ष्मीर्वृद्धिसंपत्तिनन्दाः ।पुंलिङ्गोऽयं स्याद्विधिर्यः शुभार्थो-ऽथापत्तिः स्यादापदापद्विपत्तिः ॥ ४३ ॥
शालिनी
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
छन्दाधीनवशायत्ततन्त्राद्यास्तत्र भूरिशः ।संपत्तिः श्रीर्विभूतिस्तु लक्ष्मीः संपत्समा स्त्रियाम् ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
संपत्तिः श्रीर्विभूतिश्च लक्ष्मीसंपत्समृद्धयः ।श्रीमान्समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः ।लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदःधान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
संपत्संपत्तिलक्ष्म्यौ श्रीर्विपत्तिर्विपदापदौ ।अवसादस्तु सादः स्याद्विषादश्च श्लिकुर्न ना ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
संभाषणे क्रियाकारे ज्ञानतोषणयोरपि ।संपद्भूतौ गुणोत्कर्षे स्वाहाग्नेय्यां च वाचि च ॥ ११६ ॥
अनुष्टुप्
संपद् as a meaning in nānārtha verses
- कोषकल्पतरु भूतिभूतिस्तु संपद्गजभूषणे स्या- ज्जातौ तथा भस्मनि च प्रदिष्टम् । स्यूतिस्तु संतानकसीवनेषु स्यूतौ भवेदूतिरिहावनेऽपि ॥ ५५ ॥ Koṣakalpataru 6.16.55
- कोषकल्पतरु नन्दाछेदिस्तु बज्रे नरि स च्छिदि स्त्री ज्ञाने विदा स्त्रीधिषणार्थकश्च । धीदा तु कन्या धिषणार्थकापि नन्दा तु संप[5a]न्मणिके तिथौ च ॥ २८ ॥ Koṣakalpataru 6.19.28
- परमानन्दीयनाममाला लक्ष्मीलेखोऽमरे लिपौ लक्ष्मीः शोभासंपत्प्रियङ्गुषु । लक्ष्यं वेध्ये च संख्यायां लिङ्गं रुद्राङ्गचिह्नयोः ॥ ३४७ ॥ Paramānandīyanāmamālā 5.23.347
- शब्दरत्नाकर श्रीविट् प्रजावैश्ययोः पुंसि स्त्री मले जनने द्वयोः । श्रीः कान्तिसंपदोर्लक्ष्म्यां लवङ्गकुसुमेऽपि च ॥ २२४७ ॥ Śabdaratnākara 4.1.2247
- वैजयन्ती विभूतिविभूतिर्भूतिरैश्वर्यमणिमादिकसंपदोः ॥ ३४ ॥ Vaijayantī 8.5.34