चूडा
cūḍāस्त्री · fem.In 15 kośas: 24 synonym verses, 6 as a nānārtha head word, 18 as a meaning of another word.
चूडा केशी केशपाशी शिखा शिखण्डिका समाः ॥ ५७१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
अनुष्टुप्
genderस्त्रीfem.
वडभिर्वडभी चूडा चूला च स्युः स्त्रियामिमाः ।विमानमथ तद्भेदास्तत्र विच्छन्दकोऽस्त्रियाम् ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः ।मत्तवारणमिच्छन्ति प्रग्रीवं पुंनपुंसकम् ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
केशेषूपरि मालस्य वर्त्म सीमन्तकः पुमान् ।चूडा केशी केशपाशी शिखा पुंसि शिखण्डकः ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ ।केकाथापस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्तिचरः पुनः ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
दुर्माषा चक्रिका चूडा काम्बोजी काकपीलुका ।वाकुची वागुचिश्चन्द्रशकला चन्द्रवल्लरी ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कलापः प्रचलाकश्च पिच्छं बर्हस्तु न स्त्रियाम् ।शिखा चूडा पक्षिभेदाः कोकवञ्जुलकादयः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
चूडा केशी केशपाशी जुटकं च शिखण्डिका ।बालानां काकपक्षोऽसौ शिखण्डक-शिखाण्डकौ ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
केशेषु वर्त्म सीमन्तः कुरलो भ्रमरालकः ।शिखा शिखण्डिका चूडा बालानां काकपक्षकः ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
चूडा शिखण्डिका केशी केशपाशी तथा शिखा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्ड (wrong syllable)
genderस्त्रीfem.
चूडा चूला चन्द्रशाला वडभी वलभिस्तथा ।कूटागारञ्च वलभी गृहाद्युपरि यद्गृहम् ॥
अनुष्टुप्
genderस्त्रीfem.
श्रीभद्रो भद्रको भद्रा गुन्द्रा च भद्रमुस्तकम् ।उच्चटा चक्रला चूडा चूडाला चेचुडा भये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
शिखायान्तु शिखा चूडा मयूरस्य निगद्यते ।शिखण्डोऽस्त्री पिच्छबर्हे शिखिपुच्छशिखण्डके ॥
अनुष्टुप्
genderस्त्रीfem.
धम्मिल्लास्ते निगदिता मौलिर्मौली च तत्र हि ।शिखा चूडा केशपाशी जुटिका जूटिकेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् ।करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
genderस्त्रीfem.
तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे ।वलभिर्वर्डभी तद्वद्वडभिश्च्यूडया समम् ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.doubtful
जानुदेशस्त्ववस्कारः शुण्डायां स्रोत इत्यपि ।कक्ष्या चूडा(षा?) वरत्रा स्याद्धेनुका करिणी वशा ॥ ७०८ ॥
अनुष्टुप्
genderस्त्रीfem.
पिच्छबर्हे कलापश्च प्रचलाकः शिखण्डकः ।शिखाचूडे समे स्यातां समौ भासशकुन्तकौ ॥ ७८९ ॥
अनुष्टुप्
genderस्त्रीfem.
चूडा केशी केशपाशी शिखण्डी कमुजा शिखा ।बालानां सा काकपक्षः शिखण्डश्च शिखण्डकः ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ ।चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥
आर्या
meaningsशिरस्
चोडो देशविशेषः स्याच्चोडः प्रावरणान्तरम् ।चूडा बाहुविभूषायां चूडे तु वलभीशिखे ॥
अनुष्टुप्
माषपर्ण्यां कृष्णवृन्ता सिंहपुच्छी महासहा ।रात्रावप्यर्जुनी सौम्या शिखा चूडा शिरस्यपि ॥ १५ ॥
अनुष्टुप्
meanings
चूडा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् मौलिचूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ १९३ ॥ Amarakośa 3.3.193
- धरणिकोश शिखाशिखा ज्वाला शिखा चूडा शिखा शाखा शिखा शिफा । शिखा शिखण्डिनां चूडा शिखा स्यादग्रमात्रकम् ॥ Dharaṇikośa 2.3.2
- धरणिकोश शिखण्डशिखण्डः कथितः सद्भिश्चूडायां शिखिपुच्छके । कोदण्डं कार्मुकं प्रोक्तं कोदण्डो भ्रूलतापि च ॥ Dharaṇikośa 12.1.9
- धरणिकोश मौलिआलुः कन्दप्रभेदः स्यादालुर्गलन्तिका स्मृता । मौलिः संयतकेशेषु चूडामुकुटयोरपि ॥ Dharaṇikośa 27.2.8
- कोषकल्पतरु शिखण्डउक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ Koṣakalpataru 6.12.85
- कोषकल्पतरु चीरसीरो रवौ पुंस्यथ लाङ्गलेऽस्त्री चीरं तु चूडांशु[46a]कगोस्तनेषु । स्यात्सीसके स्त्री त्वपि झिल्लिकायां कच्छाटिकायामपि लेखभेदे ॥ १९ ॥ Koṣakalpataru 6.27.19
- कोषकल्पतरु मौलिधमिल्लचूडामुकुटेषु मौलि- र्द्वयोरशोके तु नृलिङ्ग उक्तः । शालिः पु[68b]मान्स्यात्कलमे च गन्ध- मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥ Koṣakalpataru 6.28.89
- नानार्थार्णवसंक्षेप केशीचूडायां यादवाचार्यो ना तु केशः शिरोरुहे । रश्मौ भगे च क्लीबं तु ह्रीबेरे क्ष्वेडवाक् पुनः ॥ २८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.281
- नानार्थार्णवसंक्षेप मौलिमौलिस्तु नृस्त्रियोर्मूर्ध्नि चूडामकुटयोरपि । तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1039
- नानार्थार्णवसंक्षेप शिखाशिखा तु स्त्री शिफाशाखाघृणिज्वालासु मूर्धनि । चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके ॥ १३६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1365
- नानार्थार्णवसंक्षेप शिखण्डशान्तौ चाप्याश्रमपदे श्वयीचिस्तु निशाकरे । श्वयथौ च शिखण्डस्तु चूडायां बर्हिबर्हके ॥ २०९ ॥ Nānārthārṇavasaṃkṣepa 3.2.209
- नानार्थार्णवसंक्षेप केशपाशीक्षेप्तव्ये त्रिः केशपाशी पुनश्चूडार्थके स्रियाम् । ना तु केशकलापेऽथ पुमान् केलिकिलः स्मृतः ॥ १९१ ॥ Nānārthārṇavasaṃkṣepa 6.191
- शब्दरत्नावली शिखण्डन स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके । भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् ॥ भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे । मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः ॥ मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले । वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् ॥ वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये । सरण्डः सरटे धूर्ते कामुके भूषणान्तरे ॥ Śabdaratnāvalī 7.13.35
- शब्दरत्नावली मयूरमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95
- शब्दरत्नावली मौलिमौलिः किरीटे चूडायां धम्मिल्लाशोकवृक्षयोः । लीलाशृङ्गारचेष्टायां स्त्रियां केलिविलासयोः ॥ Śabdaratnāvalī 7.28.33
- शब्दरत्नाकर मौलिमौलिस्तु संयते केशे चूडायां मकुटे द्वयोः । वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥ Śabdaratnākara 4.1.1976
- त्रिकाण्डशेष शिखालेखो देवेऽपि पङ्क्तौ स्त्री शिखा चूडाग्रयोरपि । शाखा वेदविभागेऽपि सखा मित्रसहाययोः ॥ ५२ ॥ Trikāṇḍaśeṣa 3.3.52
- वैजयन्ती मौलिमोचा कदल्यां स्त्री वृक्षरसे ना पाटले नषण् । मौलिः संयतकेशेषु चूडायां मकुटेऽप्यषण् ॥ ६४ ॥ Vaijayantī 6.5.64