कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खपुर

khapuraपुं · masc.

In 14 kośas: 12 synonym verses, 11 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.246
घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.69 · p. 256
तन्मज्जा खपुरं क्लीबे कूर्परं गरिका स्त्रियाम् ।वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.78 · p. 470
पुरसद्माङ्गयोः शीर्षछत्रयोः पुण्डरीकके ।मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 146
गुवाकश्च गुवाकुः स्यात्खपुरः फलपुष्पकः ।घोटा(ण्टा?) चाथ फलं तस्या उद्वेगं चिक्क-चिक्कणे ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.9 · p. 107
शालारमात्रे च कटित्र-मित्रेगोत्रं पतत्रं सशिलीन्ध्ररेत्रम् ।अग्रं तथोपह्णरशार्वराणिपुरं गृहेऽङ्गे खपुरं घटे च ॥ ९ ॥
उपजातिः
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.180 · p. 99
दाक्षिणात्यो दृढफलो नालिकेलो लतातरुः ।पूगे क्रमुकगूवाकखपुरा नीलवल्कलः ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.2 · p. 1
स्वर्गे नाकत्रिलोकाग्र्यसुधावासबुधालयाः ।मन्दाकिनीधरो दिव्यः खपुरं तं नपुंसकम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2068 · p. 342
पूगो घोण्टा गुवाकश्च गूवाकः खपुरः पुनः ।क्रमुकश्चेति नामानि पूगद्रुमस्य सन्ति वै ॥ २०६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.452 · p. 60
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.19 · p. 33
वाटः पथश्च माथश्च खपुरन्तूर्ध्वगं पुरम् ।हरिश्चन्द्रपुरं शौभमुद्रङ्गः प्रतिमार्गकः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.11 · p. 45
प्ररोहश्चाथ वंशः स्याद्योंऽकुरः पर्वसूत्थितः ।परुः पर्व पुमान् ग्रंथिर्निर्यासः खपुरो लशः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.222 · p. 63
खपुरः पुगपट्टोऽथ मधुक्षीरो महारसः ।परुषः पाण्डुखर्जूरौ तस्मिन् खर्जूरिकाल्पके ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.30 · p. 170
खपुरं क्रमुकं प्राहुर्लसकं चोर्ध्वसंप्लवम् ।विदुरो ज्ञानयुक्ते स्यान्मन्त्री दुर्योधनस्य च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.7 · p. 318
न मन्दिरं ना सदने पुरेऽन्त्येपुमान्समुद्रे विवरं तु गर्त्ते ।स्याच्छिद्ररन्ध्रप्रतिमं च दोषेपूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.8 · p. 318
स्याद्भद्रमुस्तासु घ[53b]टे तु षण्ढेद्वारे पुरद्वारि च गोपुरं च ।स्यान्मुस्तकेऽथो चिकुरः शिरोजेभुजङ्गमे ना गृहबभ्रुकेऽपि ॥ ८ ॥
उपजातिःmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.614 · p. 100
खपुरो ना पूगवृक्षे पूगपट्टे च शाखिनाम् ।निर्यासे भद्रमुस्ते च रभसः प्रोक्तवानमुम् ॥ ६१४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.615 · p. 100
गन्धद्रव्यविशेषे च बालसंज्ञेऽजयः पुनः ।अत्रार्थे शण्डमाचष्टे क्ली तु पूगफले स्मृतम् ॥ ६१५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.76 · p. 220
आतपत्रे पुण्डरीकं कं शीर्षेऽथ द्रवे मधु ।सद्माङ्गयोः पुरं क्लीबे घटार्थे खपुरं पुनः ॥ ७६ ॥
अनुष्टुप्
meaningsघट
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.398 · p. 36
किञ्जल्के स्त्री पुमान् तुङ्गे मुकुरे पुष्पकेसरे ।सूपधूपनके क्लीबं खपुरः पूगमुस्तयोः ॥ ३९८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.69 · p. 270
खपुरोऽलसके भद्रमुस्तके क्रमुकेऽपि च ।खर्परस्तु शठे चौरे भिक्षादिभाण्डगण्डयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2083 · p. 252
खिङ्खिरो वरुणे क्रोष्टौ खेचरोर्कादिवातयोः ।पूगे तदीयनिर्यासे खपुरः पूगवेष्टके ॥ २०८३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.344 · p. 212
भद्रमुस्ते गुवाके च खपुरोऽथ द्रुमे पुमान् ।रूप्ये खले च खर्ज्जूरः खुरः कोलदले शफे ॥ ३४४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.22 · p. 240
किंखिरौ क्रोष्टुखट्वाङ्गौ खेचरः पवनेऽपि च ।खपुरः पूगवेष्टेऽपि पूगनिर्यासयोरपि ॥ २२ ॥
अनुष्टुप्