मचर्चिका
macarcikāस्त्री · fem.In 10 kośas: 10 synonym verses.
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
अनुष्टुप्
genderस्त्रीfem.
मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ ।प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके ।क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥ ११२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रकाण्डमस्त्री नरि तल्लजोघौमतल्लिका स्त्री च मचर्चिका च ।एते समासान्तगताः प्रशस्ता-वेकोऽपि चोद्यः सुदिनं वसु स्यात् ॥ ५७ ॥
उपजातिः
genderस्त्रीfem.
स्यात्पूर्वपदतो योगश्चैषां मुख्यार्थवाचिनाम् ।शार्दूलसिंहनागोद्धमचर्चिकामतल्लिकाः ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चि (wrong syllable)
genderस्त्रीfem.
मतल्लिका स्यादुद्घश्च तल्लजश्च मचर्चिका ।प्रकाण्डमस्त्रियामेते प्रशस्तार्थावबोधकाः ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
सिंहशार्दूलनागाद्या उत्तमार्थे भवन्ति वै ।वृन्दारकस्तल्लजश्च मतल्लिका मचर्चिका ॥ २६१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्लि (wrong syllable)
genderस्त्रीfem.
मतल्लिका प्रकाण्डोऽस्त्री तल्लजः स्यान्मचर्चिका ।उद्घ इत्येष पर्यायः प्रशस्तवाचको मतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderस्त्रीfem.
स्त्र्यर्थस्य श्रैष्ठ्यवादिन्यौ मतल्ली च मचर्चिका ।प्रकाण्डं तल्लजोद्घौ च प्रशस्तार्थाभिधायकाः ॥ २८५ ॥
अनुष्टुप्
genderस्त्रीfem.
ते स्युरर्थसमा यद्वत्सत्त्वाद्या वाक्यगोचराः ।मचर्चिका मतल्लिका प्रकाण्डमुद्धतल्लजौ ॥ ४२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.