कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उद्घ

udghaपुं · masc.

In 10 kośas: 11 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.96 · p. 54
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
अनुष्टुप्
genderपुंmasc.doubtful
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.128 · p. 5
रक्ते तु शोध्यकीलाले मांसे तूद्घ समारटम् ।लेपनं च रोमणि तु त्वग्मलं वालपुत्रकः ॥ १२७ ॥कूपजो मांसनिर्यासः परित्राणमथ स्नसा ॥तन्त्री नखारुस्नावानः संधिबन्धनमित्यपि ॥ १२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.27
मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ ।प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥
पञ्चचामरम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.112 · p. 226
श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके ।क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.57 · p. 7
प्रकाण्डमस्त्री नरि तल्लजोघौमतल्लिका स्त्री च मचर्चिका च ।एते समासान्तगताः प्रशस्ता-वेकोऽपि चोद्यः सुदिनं वसु स्यात् ॥ ५७ ॥
उपजातिः
genderपुंmasc.doubtful
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderपुंmasc.doubtful
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.147 · p. 20
मतल्लिका स्यादुद्घश्च तल्लजश्च मचर्चिका ।प्रकाण्डमस्त्रियामेते प्रशस्तार्थावबोधकाः ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.171 · p. 422
उद्घः प्रकाण्डशब्दश्च प्रशस्यार्थे प्रयुज्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.307 · p. 21
मतल्लिका प्रकाण्डोऽस्त्री तल्लजः स्यान्मचर्चिका ।उद्घ इत्येष पर्यायः प्रशस्तवाचको मतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.285 · p. 38
स्त्र्यर्थस्य श्रैष्ठ्यवादिन्यौ मतल्ली च मचर्चिका ।प्रकाण्डं तल्लजोद्घौ च प्रशस्तार्थाभिधायकाः ॥ २८५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ घान्ताः Koṣakalpataru 6.4.5 · p. 170
स्त्री पाटलायां च मघास्तु भे स्यु-र्मघी तु जायौ धननाम्नि षण्ढे ।श्लाघाभिलाषार्चनवर्णनेषुपुंस्युद्धमाहुः करसंपुटे च ।देहानिलेऽग्नौ कथितः प्रशस्तौ
उपजातिःmetre not read in every line
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश घान्ताः Śabdaratnāvalī 7.4.2 · p. 194
अघं तु दुरिते दुःखव्यसन … चिन्तने ।अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने ।उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥
अनुष्टुप्metre not read in every line