प्रकाण्ड
prakāṇḍaपुं · masc.In 15 kośas: 26 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.
genderपुंmasc.
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
अनुष्टुप्
genderपुंmasc.
मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ ।प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥
पञ्चचामरम्
genderक्लीneut.
genderपुंक्लीm. n.
स्कन्धादधः प्रकाण्डः स्यात्प्रघाणः स्कन्ध उच्यते ।स्कन्धशाखा तु शाला स्यान्निष्कुटः कोटरः स्मृतः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
कद्वदो गर्ह्यवादी स्यात्कट्वरः कुत्सितो भवेत् ।प्रकाण्डोद्धौ प्रशंसायामाक्षेपे हतकः स्मृतः ॥ ३७८ ॥
अनुष्टुप्
genderविadj.
मणिबन्धः पाणिमूलं कफणिः कूर्परः स्मृतः ।तयोर्मध्यं प्रकोष्ठः स्यात्प्रकाण्डः कूर्परांसयोः ॥ ५३३ ॥
अनुष्टुप्
genderपुंmasc.
श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके ।क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.
नगाद्यारोह उच्छ्राय उत्सेधोऽप्युच्छ्रयश्च सः ।स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
प्रकाण्डमस्त्री नरि तल्लजोघौमतल्लिका स्त्री च मचर्चिका च ।एते समासान्तगताः प्रशस्ता-वेकोऽपि चोद्यः सुदिनं वसु स्यात् ॥ ५७ ॥
उपजातिः
genderपुंक्लीm. n.
प्रकाण्डोऽस्त्री पुंसि गण्डिः[20b]स्कन्धस्त्वस्य शिरो भवेत् ।प्रघाणो मस्तकोऽस्त्री * शिफायां तु जटा झटा ।जटिः स्त्रियां नृलिङ्गे तु मूलेरो विनिगद्यते ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
शालापि कथिता तत्र प्रकाण्डं स्कन्धमस्तके ।गण्डिः शाखावधिर्मूलात्प्रकाण्डोऽथ शिफाजटे ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
प्रकाण्डतल्लजेत्यादिशब्दा ज्ञेया यथायथम् ।अप्रधानाधमे गर्ह्यमणकं कुत्सितं पुनः ॥ ३३० ॥
अनुष्टुप्
genderक्लीneut.
जकुटः कुर्कुटश्चैव कवटः कमठोऽप्यथ ।तरण्डमुण्डकोदण्डप्रकाण्डानि नडो दृढः ॥ १३६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मतल्लिका स्यादुद्घश्च तल्लजश्च मचर्चिका ।प्रकाण्डमस्त्रियामेते प्रशस्तार्थावबोधकाः ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा ।अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
प्रकाण्डमस्तकं स्कन्धो वृक्षस्य कथ्यते बुधैः ।प्रकाण्डो गण्डिका गण्डिर्मूलात् शाखावधिर्द्रुमः ॥ १९६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
genderक्लीneut.
मतल्लिका प्रकाण्डोऽस्त्री तल्लजः स्यान्मचर्चिका ।उद्घ इत्येष पर्यायः प्रशस्तवाचको मतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंक्लीm. n.
वृक्षादिदैर्घ्य उच्छ्राय उत्सेध उच्छ्रयोऽपि च ।स्कन्धः काण्डः प्रकाण्डोऽस्त्री मूलाच्छाखावधेस्तरोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंक्लीm. n.
स्त्र्यर्थस्य श्रैष्ठ्यवादिन्यौ मतल्ली च मचर्चिका ।प्रकाण्डं तल्लजोद्घौ च प्रशस्तार्थाभिधायकाः ॥ २८५ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री स्थाणुर्ध्रुवः शङ्कुरङ्कूरोऽङ्कुरमस्त्रियाम् ।स्तम्बः प्रकाण्डमस्त्री स्याद्ध्रस्वशाखाशिफः क्षुपः ॥ ४४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पार्श्वमस्त्री कफोणिस्तु कूर्परस्तस्य तूपरि ।प्रकाण्डस्तदधः पुंसि प्रकोष्ठोऽथ करः शयः ॥ १०७१ ॥
अनुष्टुप्
genderपुंmasc.
ते स्युरर्थसमा यद्वत्सत्त्वाद्या वाक्यगोचराः ।मचर्चिका मतल्लिका प्रकाण्डमुद्धतल्लजौ ॥ ४२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।पिचिण्ड उदरे ज्ञेयः पिचिण्डोऽवयवः पशोः ॥
अनुष्टुप्
प्रतापिनि प्रचण्डस्त्रिर्ना श्वेतकरवीरके ।प्रकाण्डस्त्वस्त्रियां मूलस्कन्धयोरन्तरे तरोः ॥ १०९१ ॥
अनुष्टुप्
meaningsमूलस्कन्धान्तर
प्रशस्तेऽप्यजयस्त्वाह विटपेऽथ प्रकाशवाक् ।पुंस्यर्चिषि च दीप्तौ च तुल्येऽपि त्रि स्फुटेऽपि च ॥ १०९२ ॥
अनुष्टुप्
doubtful
प्रचण्डो दुर्धरे शुक्लकरवीरे प्रतापिनि ।प्रकाण्डोऽस्त्री तरुस्कन्धे प्रशस्तविटपेषु च ॥
अनुष्टुप्
प्रकाण्ड as a meaning in nānārtha verses
- कोषकल्पतरु दण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
- कोषकल्पतरु स्कन्धआमोदलेलीतकलेशगर्व- संबन्धहिंसास्वपि पुंसि गन्धः । स्कन्धः प्र[8a]काण्डव्रजबाहुमूल- भूपालकायप्रधनांशकेषु ॥ ५७ ॥ Koṣakalpataru 6.20.57
- कोषकल्पतरु गुल्मध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत् गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले । घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडे भेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥ Koṣakalpataru 6.25.63
- परमानन्दीयनाममाला दण्डदण्डो माने प्रकाण्डे चोपायभेदेऽर्कसेवके । सैन्ये दर्पेऽथ दण्डी स्याद् द्वाःस्थे भूपे यमेऽपि च ॥ २३८ ॥ Paramānandīyanāmamālā 5.16.238
- वैजयन्ती काण्डग्रन्थौ स्तंबे प्रकाण्डेप्सु कश्यं मद्यकशार्हयोः । क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ॥ १२ ॥ Vaijayantī 6.5.12