कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · चित्ताध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे कालाध्यायः सप्तमः ॥

चित्ताध्यायः

चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
1.9.264 · p. 36
मन्दाक्रान्ता
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।मानसं कर्म संकल्पो मेधा धीर्धारणावती ॥ २६५ ॥
1.9.265 · p. 36
अनुष्टुप्
मीमांसा गणना चर्चा संख्योत्प्रेक्षा विचारणा ।अध्याहारः परामर्शस्तर्क ऊहोऽथ कोविदः ॥ २६६ ॥
1.9.266 · p. 36
अनुष्टुप्
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
1.9.267 · p. 36
शालिनी
अभिरूपः सुधीर्बोद्धा बुधो बिन्दुर्विचक्षणः ।विशारदश्च संख्यावान् आर्य उत्प्रेक्षकश्च सः ॥ २६८ ॥
1.9.268 · p. 37
अनुष्टुप्
आकारः सत्त्वजो भाव आकूतं चेङ्गितं समे ।आगूः संवित्प्रतिज्ञा च संगरः संश्रवाश्रवौ ॥ २६९ ॥
1.9.269 · p. 37
अनुष्टुप्
अङ्गीकारोऽभ्युपगमो नियमश्च प्रतिश्रवः ।आधिर्ना मानसी पीडा समाधिर्धर्मचिन्तनम् ॥ २७० ॥
1.9.270 · p. 37
अनुष्टुप्
विचिकित्सा तु संशीतिर्विशयः संशयः समौ ।संदेहद्वापरौ चाथ सर्गो निर्णयनिश्चयौ ॥ २७१ ॥
1.9.271 · p. 37
अनुष्टुप्
चित्तविभ्रम उन्मादो मिथ्याज्ञानं मतिभ्रमः ।अथ सिद्धान्तराद्धन्तकृतान्तसमयाः समाः ॥ २७२ ॥
1.9.272 · p. 37
अनुष्टुप्
स्याद्द्रोहचिन्ता व्यापादः संकेतसमयौ समौ ।धियो गुणास्तु शुश्रूषा श्रवणं ग्रहणं धृतिः ॥ २७३ ॥
1.9.273 · p. 37
अनुष्टुप्
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानमिति क्रमात् ।स योगो यस्तु संयोगो जीवात्मपरमात्मनोः ॥ २७४ ॥
1.9.274 · p. 37
अनुष्टुप्
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
1.9.275 · p. 37
अनुष्टुप्
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
1.9.276 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
प्रणिधानं प्रसंख्यानं ध्यानं सत्त्वं रजस्तमः ।गुणास्तत्त्वं प्रकृत्याद्यमविद्या स्यादहंमतिः ॥ २७७ ॥
1.9.277 · p. 38
अनुष्टुप्
चेतसोऽलंक्रिया मैत्री करुणा मुदितापि च ।उपेक्षा च चतस्रोऽमूर्दम इन्द्रियनिग्रहः ॥ २७८ ॥
1.9.278 · p. 38
अनुष्टुप्
धारणा ब्रह्मणि ध्येये चित्तस्य स्थिरबन्धनम् ।समाधिस्तु समावस्था जीवात्मपरमात्मनोः ॥ २७९ ॥
1.9.279 · p. 38
अनुष्टुप्
ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं समं त्रयम् ।धर्मोऽस्त्री सुकृतं श्रेयः पुण्यं सुचरितं वृषः ॥ २८० ॥
1.9.280 · p. 38
अनुष्टुप्
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
1.9.281 · p. 38
अनुष्टुप्
मङ्गलं भावुकं भव्यं भविकं भद्रमद्रके ।कुशलं शोभनं श्रेयः शस्तं च क्षेममस्त्रियाम् ॥ २८२ ॥
1.9.282 · p. 38
अनुष्टुप्
पुण्यपापे त्रिषु द्रव्ये तद्वच्छिवशुभादि च ।प्रमोदमोदप्रमदसंतोषामोदसम्मदाः ॥ २८३ ॥
1.9.283 · p. 38
अनुष्टुप्
मुत्प्रीतिर्हर्ष आनन्दाह्लादानन्दथवः सुखम् ।शर्म शातमलिङ्गे शमयस्तु शुभदो विधिः ॥ २८४ ॥
1.9.284 · p. 38
अनुष्टुप्
स्त्र्यर्थस्य श्रैष्ठ्यवादिन्यौ मतल्ली च मचर्चिका ।प्रकाण्डं तल्लजोद्घौ च प्रशस्तार्थाभिधायकाः ॥ २८५ ॥
1.9.285 · p. 38
अनुष्टुप्
दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि ।दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥
1.9.286 · p. 39
गीतिः
शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी ।इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥
1.9.287 · p. 39
अनुष्टुप्
विषयेन्द्रियं हृषीकमथ ज्ञानेन्द्रियं मनः ।श्रुतिस्त्वग्रसना दृष्टिर्नासाथ चरणौ करौ ॥ २८८ ॥
1.9.288 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्रि (wrong syllable)
उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् ।त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥
1.9.289 · p. 39
अनुष्टुप्
गन्धे परिमलामोदौ सौरभ्यं सौरभोऽस्त्रियाम् ।घ्राणतर्पणगन्धे तु कषायः सुरभिः कटुः ॥ २९० ॥
1.9.290 · p. 39
अनुष्टुप्
मनोज्ञगन्धे सुरभिगन्धिरुच्छ्रितगन्धिनि ।उद्गन्धिरिष्टगन्धी तु सुगन्धिर्विस्रमित्यदः ॥ २९१ ॥
1.9.291 · p. 39
अनुष्टुप्
आमगन्धिनि दुर्गन्धिः पूतिगन्धिरमी त्रिषु ।कषायाद्यास्तद्वदर्था अग्न्युत्पात उपाहितः ॥ २९२ ॥
1.9.292 · p. 39
अनुष्टुप्
उत्पातो पप्लवारिष्टोपसर्गा उपलिङ्गकम् ।अजन्यमीतिरित्येते शब्दाः सप्त समार्थकाः ॥ २९३ ॥
1.9.293 · p. 39
अनुष्टुप्
कषाये तुवरः स्वादौ मधुरो लवणः कटुः ।अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥
1.9.294 · p. 40
अनुष्टुप्