All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
शेषकाण्डः · लिङ्गसङ्ग्रहाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे अव्ययपर्यायाध्यायः
शेषकाण्डे लिङ्गसङ्ग्रहाध्यायः
नाम्नां पूर्वमिहोक्तानामनुक्तानां च कृत्स्नशः ।सामान्यैर्लक्षणैः कैश्चित् क्रियते लिङ्गसंग्रहः ॥ १ ॥
8.9.1 · p. 289
अनुष्टुप्
इच्च सर्वमुदन्तेषु पाकुरज्ज्वादि किञ्चन ।नदीनामाह्वयाः सर्वे प्रायेण च लताह्वयाः ॥ ३ ॥
8.9.3 · p. 289
अनुष्टुप्
णचोऽञि व्यावहार्याद्या अड्डन्तास्तु पचादयः ।अप्रत्यये जुगुप्साद्या युजन्ता भावनादयः ॥ ४ ॥
8.9.4 · p. 289
अनुष्टुप्
क्तिन्नन्तास्ततिगत्याद्याः क्बिन्ताः संपदादयः ।इञि स्युः कारिबोध्याद्या ण्वुलि प्रच्छर्दिकादयः ॥ ५ ॥
8.9.5 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्रीडाप्रहरणे णान्ताः पाल्लवाद्या घञस्तु ञे ।क्रियायां दाण्डपाताद्यास्तल्ङ्याबूङ्क्ष्वन्धतादयः ॥ ६ ॥
8.9.6 · p. 289
अनुष्टुप्
अके वैरादिवीप्सादौ स्युः काकोलूकिकादयः ।क्यापि तु ब्रह्महत्याद्या दुल्याद्यल्पत्वकीर्तने ॥ ७ ॥
8.9.7 · p. 289
अनुष्टुप्
त्रिलोकीत्यादयोऽदन्तैः समाहारार्थकद्विगौ ।त्रिपात्रत्रियुगाद्याः षण्णभवन्यादयस्त्वनौ ॥ ८ ॥
8.9.8 · p. 289
अनुष्टुप्
इति स्त्रीलिङ्गाः
अदन्ताः पुंस्युपान्ताश्चेत् कणौ भरमटास्तथौ ।षसौ च सान्ता ये च स्युरुदन्ताः प्रायशो नरः ॥ ९ ॥
8.9.9 · p. 289
अनुष्टुप्
इदन्तेष्वरतिर्वर्मिर्वर्णिर्वाहिर्ग्रहिः प्रहिः ।स्तभिः कपिः सनीरालिरर्दनिर्वमतिर्नरः ॥ १० ॥
8.9.10 · p. 289
अनुष्टुप्
अङ्याबन्ताश्च वृक्षार्थाः प्रायो रोहित्तरत्तथा ।शैलानामाह्वयाः सर्वे गोत्राख्याश्चरणाह्वयाः ॥ ११ ॥
8.9.11 · p. 290
अनुष्टुप्
कन्यन्ता राजतक्षाद्या ॠदोरपि करादयः ।इक्श्तिपोः शासिशास्त्याद्याः स्युरेरचि जयादयः ॥ १२ ॥
8.9.12 · p. 290
अनुष्टुप्impossible sibilant cluster: इक्श्तिपोः
अवश्यायादयो णान्ता घान्ता दन्तच्छदादयः ।प्रध्याद्याः प्रादितो घोः कौ स्युर्वमथ्वादयोथुचि ॥ १३ ॥
8.9.13 · p. 290
अनुष्टुप्
प्रश्नाद्या नङि पाकाद्या घञि ल्यौ नन्दनादयः ।प्रथिमाद्या इमनिचि कुणप्पीलुकुणादयः ॥ १४ ॥
8.9.14 · p. 290
अनुष्टुप्
इति पुंलिङ्गाः
त्रान्तद्व्यच्कासिसुस्नान्तं लोपधं युक्तयोपधम् ।अंबुपुष्पाणि च क्लीबे रेचकं त्वभयाफले ॥ १५ ॥
8.9.15 · p. 290
अनुष्टुप्
ब्रह्मोद्याद्या भावकृत्याश्छन्दोऽणि त्रैष्टुभायः ।स्मिताद्या भावनिष्ठान्ताःकर्णजाहादि जाहचि ॥ १६ ॥
8.9.16 · p. 290
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समूहकर्मभावार्थतद्धिते वार्धकादयः ।सांराविणोपमानादि नोपान्तं भावसंज्ञयोः ॥ १७ ॥
8.9.17 · p. 290
अनुष्टुप्
एकद्वन्द्वाव्ययीभावाः स्युरितोऽकर्मधारये ।अनञ्तत्पुरुषे शब्दाः कन्थोशीनरनामसु ॥ १८ ॥
8.9.18 · p. 290
अनुष्टुप्
यथा सौशमिकन्थं स्याद्बाहुल्ये तु समासभाक् ।छाया यथा खगच्छायं नृपामर्त्यार्थकात्परा ॥ १९ ॥
8.9.19 · p. 290
अनुष्टुप्
अराजतः सभा भूभृत्सभं रक्षः सभं यथा ।न काष्ठादेरशालार्था सैव दासीसभं यथा ॥ २० ॥
8.9.20 · p. 290
अनुष्टुप्
उपज्ञोपक्रमान्तञ्च तदादित्वे विवक्षिते ।प्राणिन्युपज्ञमित्यादि पथः संख्याव्ययात्परः ॥ २१ ॥
8.9.21 · p. 290
अनुष्टुप्
शशादूर्णा गृहात्स्थूणा क्रियाव्ययगुणानुगम् ।एकत्वञ्चास्य पुण्यात्तु सुदिनादप्यहः परः ॥ २२ ॥
8.9.22 · p. 291
अनुष्टुप्
कुटिलं गच्छतीत्यादि क्रियाणां तु विशेषणम् ।नपुंसकं तु भद्रं स्वरित्यव्ययविशेषणम् ॥ २३ ॥
8.9.23 · p. 291
अनुष्टुप्
इति नपुंसकलिङ्गः
स्त्रीप्राण्यर्थाः स्त्रियां पुंसि पुंप्राण्यर्था विना त्विह ।स्त्रीत्वेनोक्तैस्तथापत्येऽणादि ष्वुन्नादि शिल्पिनि ॥ २४ ॥
8.9.24 · p. 291
अनुष्टुप्
क्वचिद्रश्मिमयूखांशुघृणिघृष्टिगभस्तयः ।सृपाटी त्रिसरा सूर्मिः सुषुम्ना यष्टिरिंगुदी ॥ २५ ॥
8.9.25 · p. 291
अनुष्टुप्
कलंबी शल्लकी मल्ली वरटा जाटलिः कुटी ।शाटी रेणुहरेणूरुजलूकाकोलिधूलयः ॥ २६ ॥
8.9.26 · p. 291
अनुष्टुप्
उत्कण्ठा कंकती कन्दूर्वितस्ती रयिरञ्जलिः ।कूपस्य च त्रिका व्रीडा प्रेंखोलिः फलकी कटी ॥ २७ ॥
8.9.27 · p. 291
अनुष्टुप्
इति स्त्रीपुंसलिङ्गाः
अर्धर्चादिगणे प्रोक्तं सर्वं नृक्लीबलिङ्गकम् ।तच्च लिङ्गान्तरेऽनुक्तं सर्वमुक्तं घृतादि च ॥ २८ ॥
8.9.28 · p. 291
अनुष्टुप्
तत्र के चिद्घृतादीनां पुंस्त्वाद्यं वैदिकं विदुः ।अत एकेन लिङ्गेन ते पूर्वमिह वर्णिताः ॥ २९ ॥
8.9.29 · p. 291
अनुष्टुप्
पिशाचादिषु भूतोऽस्त्री शंकुरप्राणिगोचरः ।विशेषकञ्च तिलकं पुण्ट्रे ब्रह्मा द्विजेऽब्जजे ॥ ३० ॥
8.9.30 · p. 291
अनुष्टुप्
क्ष्वेडाश्च कन्दलाः कालकूटाद्याः स्युः कमण्डलुः ।सक्तुः परीतन्महिमा कर्म पर्व च लोम दोः ॥ ३१ ॥
8.9.31 · p. 291
अनुष्टुप्
इति नृषण्डाः
अपुंसि चालनी दाम वणिज्याश्मन्तिका स्थली ।शरव्यार्च्चिर्गुडा पत्री स्यात्कुथे वर्णतर्णिका ॥ ३२ ॥
8.9.32 · p. 292
अनुष्टुप्
सगरी नटने कृत्या त्वभिचारजदैवते ।मद्ये मधूलकं चेति क्वाप्यथाकर्मधारये ॥ ३३ ॥
8.9.33 · p. 292
अनुष्टुप्
अनञ्तत्पुरुषे सेना च्छाया शाला निशा सुरा ।नृसेनं पादपच्छायं गोशालं श्वनिशं यथा ॥ ३४ ॥
8.9.34 · p. 292
अनुष्टुप्
नृसेनेत्यादयोऽप्येवं कुत्र चिद्भावकर्मणोःसाहायकं साहायिका मैत्र्यं मैत्री च वुञ्ष्यञोः ॥ ३५ ॥
8.9.35 · p. 292
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 हा (wrong syllable)
द्विगुरन्नन्त आबन्तोऽप्येवं नश्चात्र लुप्यते ।यथा त्रितक्षं त्रितक्षी त्रिखट्वं च त्रिखट्व्यपि ॥ ३६ ॥
8.9.36 · p. 292
अनुष्टुप्
इति स्त्रीषण्डाः
त्रिलिङ्ग्यां तु क्वचिच्छुङ्गा कलशी कन्दरी दरी ।पेटी पुटी पटी वाटी कवाटी पिटका वटी ॥ ३७ ॥
8.9.37 · p. 292
अनुष्टुप्
अर्गला दाडिमी पात्री विडंगा कुवली तटी ।मृणाली कन्दली नाली मुस्ता जृंभा हरीतकी ॥ ३८ ॥
8.9.38 · p. 292
अनुष्टुप्
इति त्रिलिङ्गाः
येनार्थः प्रस्तुतो नाम्ना तल्लिङ्गं वाच्यलिङ्गकम् ।न त्रिषु स्युर्विशिष्टार्थस्पर्शिनः पंकजादयः ॥ ४० ॥
8.9.40 · p. 292
अनुष्टुप्
भेद्यनिष्ठत्वमेकार्थवृत्तिमात्रैककारणम् ।अतन्त्रीकृत्य भेदोक्तिः कैश्चिदाश्रीयते पुनः ॥ ४१ ॥
8.9.41 · p. 292
अनुष्टुप्
ते स्युरर्थसमा यद्वत्सत्त्वाद्या वाक्यगोचराः ।मचर्चिका मतल्लिका प्रकाण्डमुद्धतल्लजौ ॥ ४२ ॥
8.9.42 · p. 293
अनुष्टुप्metre not read in every line
अमीषु नार्थलिङ्गता प्रशस्तवाचकेष्वपि ।योनिसंबन्धवाचिन्यः पुत्राद्याः पुंगिरो नरि ॥ ४३ ॥
8.9.43 · p. 293
अनुष्टुप्metre not read in every line
मात्राद्याः स्त्रीगिरः स्त्रीत्वे विद्यासंबन्धगोचराः ।आचार्यर्त्विगुपाध्यायशिष्या याज्यार्थिकस्तिथा ॥ ४४ ॥
8.9.44 · p. 293
अनुष्टुप्
शास्त्रार्था वैदिकार्थाश्च स्थपतिश्रोत्रियादयः ।अधिकारकृता मन्त्रिस्थापत्याद्यभिधास्तथा ॥ ४५ ॥
8.9.45 · p. 293
अनुष्टुप्
भट्टारको भट्टरको भट्टस्तत्रभवान् भवान् ।भगवान् पूज्यपादश्च देवाश्चार्चार्थिकास्तथा ॥ ४६ ॥
8.9.46 · p. 293
अनुष्टुप्
शत्रुमित्रज्ञशिल्प्यर्थाः प्रायस्तद्वन्न तु त्रिषु ।वाच्यवत्स्याद्बहुव्रीहिर्दिङ्नामसु तु स स्त्रियाम् ॥ ४७ ॥
8.9.47 · p. 293
अनुष्टुप्
कृतः कर्तर्यसंज्ञायां कृत्याद्या ल्युट् च कारके ।सर्वनामान्यणाद्याश्च तद्धिताः संज्ञया विना ॥ ४८ ॥
8.9.48 · p. 293
अनुष्टुप्
तद्धिताश्चतुर्थ्यां ये संकेतात् कृतकाह्वयाः ।षट्संज्ञा युष्मदस्मच्च त्रिषु लिड्गेष्वभेदवत् ॥ ४९ ॥
8.9.49 · p. 293
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति अभिधेयवल्लिङ्गाः
कुत्तद्धितसमासाख्या प्रसिद्धाख्ये च लिङ्गिनि ।तद्यथा चक्रभृद्विष्णुर्लताभेदाभिधा यथा ॥ ५० ॥
8.9.50 · p. 293
अनुष्टुप्
द्वन्द्वस्तत्पुरुषोऽप्यन्त्यलिङ्गोऽश्वबडबौ नरि ।तथैवोक्षवशावह्नरात्राहाश्च टजन्तकाः ॥ ५१ ॥
8.9.51 · p. 293
अनुष्टुप्
क्लीबे संख्यापरं रात्रमर्धान्ना पञ्चखार्यना ।त्रिष्वर्थः प्राक्चतुर्थ्यन्तस्तद्धितार्थो द्विगुस्त्रिषु ॥ ५२ ॥
8.9.52 · p. 293
अनुष्टुप्
प्रादिप्राप्तालमापन्नात् परं च प्रवरो यथा ।प्राप्तार्थोऽलंकुमारिश्च पुमान् स्त्रीपुंसयोर्युतौ ॥ ५३ ॥
8.9.53 · p. 293
अनुष्टुप्
ग्राम्यानेकशफाबालबहुपश्वन्वये स्त्रियः ।क्ल्यक्लीयुतौ षण्णैक्यं वा व्यक्त्यादि लुपि युक्तवत् ॥ ५४ ॥
8.9.54 · p. 294
अनुष्टुप्
परवद्वानुवादेषु तिङव्ययमलिङ्गकम् ।अचः पुंसि हलो दीर्घाः स्त्रियां लोपधनत्रसाः ॥ ५५ ॥
8.9.55 · p. 294
अनुष्टुप्
षण्डे सर्वे गुणद्रव्यक्रियायुक्तार्थकास्त्रिषु ।बहुत्वमेकता च स्याज्जात्याख्यायां यथा यवाः ॥ ५६ ॥
8.9.56 · p. 294
अनुष्टुप्
यवश्च व्रीहयो व्रीहिरित्यथ स्याद्विशाखयोः ।द्वित्वं बहुवचश्चैवं द्वयं प्रोष्ठपदास्वपि ॥ ५७ ॥
8.9.57 · p. 294
अनुष्टुप्
अनेकमिति शब्दस्य तद्विशेष्यस्य चैकता ।संख्यार्थस्याबहुव्रीहेर्यथानेका वधूरिति ॥ ५८ ॥
8.9.58 · p. 294
अनुष्टुप्
इति सामान्यन्यायाः
न कलामपि भारत्या ब्रूयुर्वर्षशतैरपि ॥ ५९.५ ॥
8.9.63 · p. 294