वायस
vāyasaपुं · masc.In 14 kośas: 13 synonym verses, 7 as a nānārtha head word, 16 as a meaning of another word.
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
अनुष्टुप्
genderपुंmasc.
अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
बलिपुष्टः पुलकारिर्नाडिजङ्घो प्रभृष्टकः ।धूलिजङ्घोन्यवापश्च परभृद्वायसोऽन्यपुः ॥ २९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः ।कङ्कोऽथ वायसोऽरिष्टः कांरवो गूढमैथुनः ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्व (wrong syllable)
genderपुंmasc.
मौकुलिः करटोऽरिष्टो बलिपुष्टोऽपि वायसः ।चिरजीवी द्विको घूकवैरी ध्वाङ्क्षश्च शक्रजः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वायसो मौकुलिश्चैकदृग्वृद्धो द्रोण उच्यते ।जलकाकस्तथा मद्गुर्घूकः कौशिकपेचकौ ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
काकोऽरिष्टो द्विको ध्वाङ्क्षो घूकारिः करटोऽन्यभृत् ।एकदृक् चिरजीवी च वायसः परभृत् पुनः ॥ २३९४ ॥
अनुष्टुप्
genderपुंmasc.
काकोऽरिष्टः करटकः करटो नगरीवकः ।बलिपुष्टश्च परभृत् वायसो गूटमैथुनः ॥
अनुष्टुप्
genderपुंmasc.
दधिक्षोराह्वयावक्रौ क्षीरश्रीरपि वायसः ।सालवेष्टः सर्जमानो द्वयं सालरसे मतम् ॥
अनुष्टुप्
genderपुंmasc.
ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् ।काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥
metre not recognised
genderपुंmasc.
कालज्ञः कृकवाकुः स्याच्चिरजीवी तु वायसः ।निशाटनी मातृवाहा मुखविष्ठाजिनच्छदा ॥ १८०८ ॥
अनुष्टुप्
genderपुंmasc.
बलिपुष्ट उलूकारिर्नाडिजंघोऽप्रहृष्टकः ।धूलिजंघोऽन्यवापश्च परभृद्वायसोऽन्यपुट् ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वायसो ध्वाङ्क्ष इहागरुद्रौश्रीवासवृक्षेऽप्यथ काकमाच्याम् ।स्त्रियां मलप्वामथ मानसं स्या-त्सरोविशेषे हृदये तथैव ॥ ९२ ॥
उपजातिः
वायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु ।वाट्यालके स्युरन्नस्य शैलेये तु शिलाह्वयाः ॥ ११ ॥
अनुष्टुप्
meaningsवेश्मन्
वातूलः पुंसि वात्यायां त्रि तु वातासहे तथा ।वातलेऽप्यथ काके द्वे वायसः स्त्री तु वायसी ॥ १६६६ ॥
अनुष्टुप्
meaningsकाक
काकोदुम्बरिकायां च काकमाच्यां च भाषिता ।भेद्यलिङ्गं तु विज्ञेयं वयः सम्बन्धिमात्रके ॥ १६६७ ॥
अनुष्टुप्
meaningsवयस्सम्बन्धिन्
doubtful
पयः क्षीरे च नीरे च रजो रेणुपरागयोः ।वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥
अनुष्टुप्
वायसोऽगुरुवृक्षे स्याच्श्रीवासकाकयोरपि ॥
वायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु ।हंसेन्दुकुमुदां रूप्ये कुमुदेऽपि खरस्य षण् ॥ ६ ॥
अनुष्टुप्
meaningsवेश्मन्
वायस as a meaning in nānārtha verses
- धरणिकोश अरिष्टअरिष्टं सूतिकागारे लशुने च शुभेऽशुभे । तक्रेऽपि च तथारिष्टा निम्बफेनिलवायसाः ॥ Dharaṇikośa 10.3.7
- कोषकल्पतरु ग्रामीणस्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** । ग्रामीण उक्तः शुनि वायसे च ग्रामोद्भवे तु त्रिषु पक्षिणी तु । स्याच्छाकिनी पक्षिवधूषु पौर्ण- मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥ Koṣakalpataru 6.15.49
- कोषकल्पतरु ऐन्द्रिद्यूतेऽद्रयस्तु द्रुमशैलसूर्या ऐन्द्रिर्जयन्तेऽपि च वायसे च । शद्रिर्गजाम्भोधरजिष्णुवाची निद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥ Koṣakalpataru 6.27.74
- नानार्थार्णवसंक्षेप काककाको द्वे वायसे तस्य समूहे क्ली पुमान् पुनः । लौल्ये काकी तु मृद्भेदे तुवरीसंज्ञके स्त्रियाम् ॥ २०० ॥ Nānārthārṇavasaṃkṣepa 2.5.200
- नानार्थार्णवसंक्षेप यमीयमजे युग्मवति च यमी तु यमुनाधुनौ । स्त्री यम्याविति तु द्यावापृथिव्योर्द्वे तु वायसे ॥ १०४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1043
- नानार्थार्णवसंक्षेप एकाक्षद्वयोस्तु वायसे विद्यादेकाहं त्वेकवासरे । क्ली पुमांस्त्वेकदिवससाध्ययज्ञेषु कीर्तितः ॥ २९० ॥ Nānārthārṇavasaṃkṣepa 4.290
- नानार्थार्णवसंक्षेप परभृत्परभृद्वायसे (स्त्री तु?त्रिस्तु) परभर्तरि ना पुनः । पथिकृद्वर्त्महोमाग्नौ त्रि तु मार्गस्य कर्तरि ॥ १११९ ॥ Nānārthārṇavasaṃkṣepa 4.1119
- नानार्थार्णवसंक्षेप गृहवलिभुज्द्वयोस्तु गृहवलिभुग् वायसे चटकेऽपि च । चन्द्रिकाप्रिय इत्येष चकोराख्यखगे द्वयोः ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 7.50
- परमानन्दीयनाममाला प्लवभेकचण्डालयोः प्लक्षे वारिवायसशब्दयोः । पुष्पं याने कुबेरस्य कुसुमे स्त्रीरजस्यपि ॥ २८६ ॥ Paramānandīyanāmamālā 5.19.286
- शब्दरत्नावली करटकरटो दर्दरूटे स्याद् गजगण्डे च वायसे । एकादशाहादिश्राद्धे कुसुम्भे निन्दय जीविते ॥ Śabdaratnāvalī 7.11.38
- शब्दरत्नावली कृष्णकीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः । कृष्णो व्यासे वायसे च केशवार्जुनयोरपि । कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.6
- शब्दरत्नावली पात्रटीरपात्रटीरो लोहकांस्ये जरत्पत्रे विभावसौ । पिङ्गाशे वायसे कङ्के युक्तव्यापारमन्त्रिणि ॥ Śabdaratnāvalī 7.27.137
- शब्दरत्नावली बलबलं सैन्ये गन्धरसे सामर्थ्यस्थौल्यरूपयोः । बला वाहालके ना तु वायसे दैत्यसामयोः ॥ Śabdaratnāvalī 7.28.27
- वैजयन्ती ध्वाङ्क्षदुवदावौ वनारण्यवह्न्योः स्वर्गार्कयोर्द्युवा । धवो वृक्षे नरे पत्यौ ध्वांक्षः स्याद्वायसे बके ॥ २७ ॥ Vaijayantī 6.1.27
- वैजयन्ती द्रोणदंष्ट्री ग्राहे सदंष्ट्रेऽहौ शार्दूले मूषिके किटौ । परिमाणे दारुपात्रे द्रोणोऽस्त्री वायसे पुमान् ॥ ४० ॥ Vaijayantī 6.5.40
- वैजयन्ती अरिष्टअरिष्टो वायसे निंबे गोरसे निरुपद्रवे । क्ली तु वर्ण्ये मृत्युचिह्ने मद्ये ताम्रे शुभेऽशुभे ॥ ९ ॥ Vaijayantī 7.5.9