कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काक

kākaपुं · masc.

In 15 kośas: 15 synonym verses, 9 as a nānārtha head word, 78 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1322 · p. 50
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.27
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.245 · p. 30
अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.116 · p. 330
मृणालकण्डः काकस्तु वलाकः स्यादथापरः ।आटीभेदे तु पत्राटी स्यान्नान्दीमुख इत्यपि ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 197
घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः ।प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 200
सैहं मार्गं काकं काङ्कं बाकं शौकं कापोतं च ।अप्यौलूकं मायूरं स्यात्सिंहादीनां संघातार्थे ॥ २७ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.114 · p. 63
द्वितीये तिन्दुके काकस्तिन्दुर्मर्कटतिन्दुकः ।कोकेन्दुकः काकपीलुः कुपीलुकुलकावपि ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.224 · p. 80
चिरजीवी द्विकः काक आत्मघोषः सकृत्प्रजः ।अरिष्टः करटो घूकारातिर्ध्वाङ्क्षोऽन्यभृत्पुनः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.371 · p. 26
काकः करटकोऽरिष्टो द्विको ध्वाङ्क्षः सकृत्प्रजः ।श्यामकाको द्रोणकाकः काकोलः काकनायकः ॥ ३७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2394 · p. 386
काकोऽरिष्टो द्विको ध्वाङ्क्षो घूकारिः करटोऽन्यभृत् ।एकदृक् चिरजीवी च वायसः परभृत् पुनः ॥ २३९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.51 · p. 85
काकोऽरिष्टः करटकः करटो नगरीवकः ।बलिपुष्टश्च परभृत् वायसो गूटमैथुनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.470 · p. 62
कपिला पिच्छिला कृष्णसारा सैवाङ्गसारका ।अथ स्यात् पीलुकः काकः काकेन्दुः काकतिन्दुकः ॥ ४७० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.790 · p. 100
ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् ।काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥
metre not recognised
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.19 · p. 46
मधुकण्ठो घोषयित्नुः कामतालः सुतार्दनः ।काको रतज्वरः सूत्री श्रावको गूढमैथुनः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.15 · p. 27
काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः ।आत्मघोषो महानेमिः कण्टको मौकलिः कुणः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.812 · p. 93
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
आर्या
meanings
धरणिकोश Dharaṇikośa · धरणिदास कश्लोकः Dharaṇikośa 1.3.3 · p. 15
काको ध्वाङ्क्षोऽथ काकाः स्युः काकोलीकाशमल्लिकाः ।काकमाचीकाकजङ्घामलपूकाकनासिकाः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.16 · p. 137
धृष्टेऽग्रजे पीठगते च मूर्धा-वक्षालने द्वीपरुषद्द्रुभेदे ।स्याद्वेसवारे करटे च काकःकाकी तु काकस्य वधूश्च जातिः ॥ १६ ॥
इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.17 · p. 137
काका मलप्वामपि काकणन्त्यांकाकोलिकायामपि काकमाच्वाम् ।स्यात्काकनासाह्वयभेषजे चकाकं पुनः स्त्रीरतबन्धकेऽपि ॥ १७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.200 · p. 60
काको द्वे वायसे तस्य समूहे क्ली पुमान् पुनः ।लौल्ये काकी तु मृद्भेदे तुवरीसंज्ञके स्त्रियाम् ॥ २०० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.84 · p. 172
कुणिर्वृक्षे कुहस्तेऽथ पिप्पल्यां जीरके कणा ।काकं काकसमूहे च योषितां करणान्तरे ॥ ८४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.6 · p. 177
काकः पक्षिवृक्षमानव्याघ्रभेदेऽतिधृष्टके ।काको भेकवृकज्येष्ठी खर्जूरीचक्रवाकके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्षि (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.7 · p. 177
काका गुञ्जा काकमाचीकाकाङ्गीमलपूष्वपि ।काकं सुरतबन्धे स्यात् तथा च काकसंहतौ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.9 · p. 94
द्विके धृष्टे च काकः स्यात्कौतुकं मङ्गलेच्छयोः ।भोग्येप्यथ स्यात्कुलकं श्लोकैकार्थपटोलयोः ॥ ९ ॥
अनुष्टुप्

काक as a meaning in nānārtha verses