कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृगदंशक

mṛgadaṃśakaपुं · masc.

In 8 kośas: 8 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.36
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥शुनको भषकः श्वा स्यादलर्कस्तु स रोगितः ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.315 · p. 94
महावेगो दधिमुखः शाखामृगवलीमुखौ ।श्वा सारमेयः शुनको भषको मृगदंशकः ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.38 · p. 206
शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः ।व्रणोर्वुको स्थिभुक्कीषो रसनालिड्रतव्रणः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.51 · p. 299
रतकीलो ललज्जिह्वो जिह्वालिट् च रतव्रणः ।शालावृको दृतिहरिर्वाताण्डो मृगदंशकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.99 · p. 20
करभश्च मयस्तूष्ट्रो महाग्रीवस्तु वर्तकः ।भषकः सारमेयः स्याच्छ्वा शुनो मृगदंशकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.592 · p. 102
लुब्धो मृगवधाजीवो लुब्धको लौभ्य एव च ।शुनके श्वा शुनिः शौनो भषको मृगदंशकः ॥ ५९२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.32 · p. 155
कुक्कुरः श्वानभषकशुनकामृगदंशकः ।कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.68 · p. 70
करभाः स्युः शृंखलका दारवैः पादबन्धनैः ।श्वा सारमेयः शुनको भषणो मृगदंशकः ॥ ६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृं (wrong syllable)
genderपुंmasc.