All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
कान्ताः · कद्विः
काष्टोदुम्बरिका काकमाचिकारक्तिकास्वपि ।टङ्कोऽस्त्री टङ्कणे नीलकपित्थेऽथ त्रिकः क्षुरे ॥ १० ॥
1.2.10 · p. 2
अनुष्टुप्
शृङ्गाटके च क्लीबं तु त्रिफलादित्रिकत्रये ।वको वुको वङ्गसेने रक्तैरण्डे वसावपि ॥ ११ ॥
1.2.11 · p. 2
अनुष्टुप्
शाकोऽस्त्री हरिते ना तु द्रेष्कायां च स्मरच्छदे ।शुकः शिरीषे स्थौणेये टिण्टुपूगे तु न द्वयोः ॥ १२ ॥
1.2.12 · p. 2
अनुष्टुप्
स्पृक्कापृक्के माल्यवत्यां लज्जायां च स्त्रियामुभे ।
1.2.5 · p. 2