कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

टान्ताः · टार्धश्लोकः

॥ टार्धश्लोकः ॥

हृष्टः प्रहसिते प्रीते विस्मिते फुल्लरोमणि ।त्वष्टा दिवौकसां शिल्पी त्वष्टारौ सूर्यवर्धकी ॥
10.2.1 · p. 36
अनुष्टुप्
इष्टं यज्ञेषु यद्दानं यागश्चाशंसितं च यत् ।
10.2.2 · p. 36
अनुष्टुप्

0475

सृष्टं स्यान्निर्मिते मुक्ते भूरिनिश्चितयोरपि ॥
10.2.3 · p. 36
अनुष्टुप्
क्लिष्टं तु क्लिशिते ज्ञेयं विक्लिष्टार्थे वचस्यपि ।अट्टं शुष्के च भक्ते च अट्टमत्यर्थगेहयोः ॥
10.2.4 · p. 37
अनुष्टुप्
कोटिरश्रौ प्रकर्षे च संख्याचापाग्रयोरपि ।खेटः कफे ग्रामभेदे कुत्सिते चर्मनन्दके ॥
10.2.5 · p. 37
अनुष्टुप्
वाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि ।त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥
10.2.6 · p. 37
अनुष्टुप्
जटा लग्नकचे मूले मांसी च कर्करी जटा ।वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥
10.2.7 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
घटी वस्त्रस्यावसरे ? परीक्षा सुतुला घटः ।कटः श्रोणौ कलिञ्जे च गजगण्डे शवे त्रिणे ॥
10.2.8 · p. 37
अनुष्टुप्
नटी सुगन्धीभेदे स्यान्नटौ शैलूषनर्तकौ ।चटुः पिचिण्डे चाटौ च व्रतिनां पीठिका चटुः ॥
10.2.9 · p. 37
अनुष्टुप्
शृङ्गाटः स्याच्चतुर्मार्गः शृङ्गाटो जलकण्टकः ।त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरम् ॥
10.2.10 · p. 37
अनुष्टुप्
कुरुण्टो झिण्टिकामेदः कुरुण्टी दारुपुत्रिका ।पर्कटी कथिता प्लक्षे बालपूगफलेऽपि च ॥
10.2.11 · p. 38
अनुष्टुप्
चिरन्टी तु सुवासिन्यां द्वितीये वयसि स्त्रियाम् ।परीष्टिः परिचर्या स्यात्परीष्टिश्च गवेषणा ॥
10.2.12 · p. 38
अनुष्टुप्
वरटा कथिता हंसी गन्धोली वरटा मता ।अवटुः कथिता घाटा अवटुः कूपगर्तयोः ॥
10.2.13 · p. 38
अनुष्टुप्
विकटो वि[22]कराले स्याद्विशाले दन्तुरेऽपि च ।चिपिटः खाद्यभेदे स्यात्तथा पिट्टिकविस्तृते ॥
10.2.14 · p. 38
अनुष्टुप्
संसृष्टं संगते विद्याच्छुद्धे च वसनादिना ।शिपिविष्टः शिवे ख्यातो दुश्चर्मा खलतिस्तथा ॥
10.2.15 · p. 38
अनुष्टुप्
प्रतिसृष्टश्च प्रहिते दत्तप्रख्यातयोरपि ।प्रतिकृष्टं विदुर्गर्ह्यं द्विरावृत्या च कर्षितम् ॥
10.2.16 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
परपुष्टः पिके प्रोक्तः परेण पोषितेऽपि च ।करहाटश्चाब्जकन्दे मदनाख्ये तु पादपे ॥
10.2.17 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)