कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चित्रक

citrakaपुं · masc.

In 19 kośas: 36 synonym verses, 7 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1285 · p. 49
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.52 · p. 3
मकुटोऽपि च कोटीरे चित्रकं च विशेषके ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.51
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.124
सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.216
तमालपत्रतिलकचित्रकाणि विशेषकम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.541 · p. 61
तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।रचिता ललाटपट्टे ललाटिका कथ्यते रेखा ॥ ५४१ ॥
आर्या
genderक्लीneut.
स्यात् फाल्गुनः फाल्गुनिकश्चैत्रे चित्रिकाचित्रको ।श्रावणः स्यात् श्रावणिको ज्यैष्ठे ज्येष्ठोऽपि वर्तते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable); pāda 3, syllable 5 श्रा (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.369 · p. 61
क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् ।पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥ ३६९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.353 · p. 172
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः ।कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.10 · p. 318
चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।व्याघ्र्यां चित्रेण संजातः कलव्याघ्रोऽथ भल्लुकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 165
जीवनाख्यं पञ्चमूलं चित्रकस्त्वग्निनामकः ।पाठी पाली च पाठीनो दारुणः पाचकोऽरुणः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 189
मृगराजः पञ्चनखः शार्दूलः श्वेतपिङ्गलः ।व्याघ्रो द्वीपी द्वीपिनोऽस्त्री हिंसीरोऽप्यथ चित्रकः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 229
पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः ।तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.94 · p. 105
रतर्द्धिकं माक्षिक-गैरिके चमार्द्वीकवत्पुष्पक-रूपके च ।स्याच्चित्रकं किं च विशेषकार्थंस्याच्छीर्षकं षद्गुतु( ? )कारकं च ॥ ९४ ॥
उपजातिः
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.7 · p. 7
चित्रकः क्षुरको रेची स्त्रीनिरीक्षणदोहदः ।कोविदारे भद्रदारुः काञ्चनारो युगच्छदः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.189 · p. 75
मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते ।हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.87 · p. 221
अनूकं कुतुकं तिन्तिडीकं कुलकचित्रके ।छत्राकं खं स्फिगं लिङ्गं प्रगमङ्गं नपुंसके ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.152 · p. 17
कण्ठीरवो महानादो मृगारिर्नखरायुधः ।पञ्चाननो गजारातिः पुण्डरीकस्तु चित्रकः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1059 · p. 163
चित्रं च चित्रकं पुण्ड्रः तिलकं च विशेषकः ।पुनस्तमालपत्रं स्यात् केशरादिसमाञ्चितम् ॥ १०५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2051 · p. 340
गन्धर्वहस्तको मुण्डो व्यडम्बको व्यडम्बनः ।रुवूको रूवुकश्चैव वर्द्धमानश्च चित्रकः ॥ २०५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्ब (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2322 · p. 376
व्याघ्रो द्वीपी च शार्दूलश्चित्रकायश्च चित्रकः ।पुण्डरीकश्च नामानि व्याघ्रस्य प्रथयन्ति वै ॥ २३२२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.284 · p. 20
फाल्गुने स्यात् फाल्गुनिकस्तपस्यः फल्गुनोऽपि च ।चैत्रे मधुश्चैत्रिकः स्यात् चैत्रकश्चित्रकोऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.11 · p. 37
राजिलो डुण्डुभो धोडस्तथा डुण्डभ इत्यपि ।मालुधानो मातुलाहिश्चित्रसर्पश्च चित्रकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.20 · p. 51
अथ भूपालभवनमस्त्री सौधं सुधामयम् ।उयारीति च विख्याते उपकार्योपकारिका ॥नन्द्यावर्तः स्वस्तिकः स्यात् सर्वतोभद्रचित्रकौ ।विच्छन्दको वर्धमानस्तारामण्डल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.103 · p. 64
पञ्चाङ्गुलश्चित्रकश्च चित्रो गन्धर्वहस्तकः ।शमीरोऽपि च शस्यार्कः द्वयं स्वल्पशमीतरौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.155 · p. 68
स्याच्चित्रश्चित्रकः पाठी वह्निसंज्ञक इत्यपि ।अथार्कपर्णो वसुको गणरूपो विकीरणः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.381 · p. 107
तमालपत्रं चित्रं स्यात्तिलकञ्च विशेषकम् ।द्वयमस्त्री चित्रकञ्च तिलके चन्दनादिभिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.181 · p. 124
लेखनी वर्णतुली स्यात् वर्णकाक्षरतूलिका ।कराश्रयः श्रीकरणश्चित्रकः कलमः पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.320 · p. 244
चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोष्टपात् ।गण्डके खड्गी खड्गीरः खड्गो वाध्रीणसोऽपि च ॥ ३२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ड्गी (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.512 · p. 67
स्नुक् स्त्रियां वज्रसीहुण्डबहुक्षीरविषाणिनः ।महावृक्षमहाक्षीरयुग्मकण्टकचित्रकाः ॥ ५१२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.583 · p. 75
शार्ङ्गाष्ठा कृष्णला दक्षा जङ्घा तिक्ता च रक्तिका ।मधुस्रवा तु सा शुक्ला दहनाह्वस्तु चित्रकः ॥ ५८३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.634 · p. 81
अल्पतुम्ब्यां कुक्कुटाक्षः समौ कर्करिचित्रकौ ।उर्वारुः कर्कटी भीरुर्वालकी चिद्भटः पुमान् ॥ ६३४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.636 · p. 81
मृगोर्वारुस्तिक्तफली विचित्रफलिका च सा ।अथो गवाक्षी गोतुम्बी कलिङ्गश्चित्रकोऽपि च ॥ ६३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1465 · p. 177
चित्रको नागरं चव्यं पिप्पल्यस्याश्च मूलकम् ।पञ्चकोलकमित्येतदथ स्यात् पञ्चवल्कलम् ॥ १४६५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.82 · p. 129
त्रिफला तु मदोदर्का भूतसारी फलत्रिका ।बलकाली बलारोहा चित्रकस्त्वग्निसंज्ञकः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.15 · p. 149
राजिलाः स्युः पुण्डरीकश्चित्रको लोहिताक्षकः ।दिव्येलकः सर्पराजः किकीसाद इतीदृशाः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.25 · p. 8
चित्रकं तिलके व्याघ्रे वृक्षभेदे च चित्रकः ।कीरको वृक्षभेदे स्यात्क्षपणे प्रापणेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.85 · p. 147
पद्मकमस्त्री करिणों-ऽशुबिन्दुजाले च पद्मकाष्ठे च ।व्याघ्रे तु चित्रको नाद्रुमभेदे पुण्ड्रके नस्त्री ॥ ८५ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.743 · p. 112
चित्रकस्तु पुमान् वह्निसंज्ञायां भेषजौषधौ ।तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ ७४३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.744 · p. 112
त्रयोदशानां भेदानामेकस्मिन् व्याघ्र एव च ।क्लीबं तु पुण्ड्रेऽथ पुमान् कालिङ्गाख्यलतान्तरे ॥ ७४४ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.26 · p. 3
गुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके ।चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.72 · p. 181
चित्रकं तिलके पुंसि व्याघ्रभेदे शुकादिषु ।चुम्बकश्चुम्बनप्रदेप्ययस्कान्ते च धूर्तके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.21 · p. 98
चारको भोजके बन्धे नाटकाङ्गेऽपि चूलिका ।चित्रकं चित्रके क्लीबं व्याघ्रैरण्डौ च चित्रकौ ॥ २१ ॥
अनुष्टुप्

चित्रक as a meaning in nānārtha verses

  • धरणिकोश पावकपावकोऽग्नौ च सद्वृत्ते [वह्निमन्थे] च चित्रके । गृह्यकाः स्युर्गृहासक्तमृगादयोऽप्यधीनकाः ॥ Dharaṇikośa 1.2.31
  • धरणिकोश तिलकतिलकं जटुलं विद्याच्चित्रके पादपान्तरे । कृष्ण्यां सौवर्चले क्लोम्नि तिलकं तिलकालके ॥ Dharaṇikośa 1.3.19
  • धरणिकोश दहनदहनाः स्युः सुदुर्वृत्तवह्निभल्लातचित्रकाः । मलिनः कृपणे म्लाने मलिनी ऋतुमत्यपि ॥ Dharaṇikośa 19.2.31
  • कोषकल्पतरु पावकहारमध्यगमणौ तु नायको [250b]नेतरि त्रिषु बुधैरुदीरितः । पावकस्त्वरणिचित्रकाग्निषु त्रिष्वयं विमलशीलशालिनि ॥ ४५ ॥ Koṣakalpataru 6.1.45
  • कोषकल्पतरु पृदाकुव्याघ्रे सर्पे चित्रके ना पृदाकु- र्गोरङ्कुः स्यान्नग्नके पक्षिजातौ । बन्दिन्युक्तोऽथ त्रिशङ्कुर्बिडाले राज्ञो भेदे स्यात्पतङ्गाह्वये च ॥ ३ ॥ Koṣakalpataru 6.1.3
  • कोषकल्पतरु अग्निमुखदेवे द्विजे चाग्निमुखोऽपि भल्ल्यां स्याच्चित्रके पञ्चनखस्तु कूर्मे ॥ ८५ ॥ Koṣakalpataru 6.2.85
  • कोषकल्पतरु धूधः स्याद्विरिञ्चौ वदने तु बन्धे वान्ते मतौ धीर्धुरपीह केतौ । धूरश्वमातर्यपि चित्रके च धूर्ते तु लिङ्गं भजते परस्य । Koṣakalpataru 6.20.1
  • कोषकल्पतरु वह्निवह्निर्हुताशे नरि चित्रके च भल्लातके वह्निसमोऽपि चाग्निः । पृश्निर्मयूखे मिथुने जनन्यां विष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥ Koṣakalpataru 6.21.6
  • कोषकल्पतरु दहनवसन्तवृक्षे रतिनायके च धत्तूरवृक्षे मदनस्तुरुष्के । भल्लातके स्याद्दहनो हुताशे दुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥ Koṣakalpataru 6.21.15
  • नानार्थार्णवसंक्षेप अग्निगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.2.2
  • नानार्थार्णवसंक्षेप अनलएवमाद्यौपनिषद्प्रयोगेषु मनीषिभिः । अनलश्चित्रके वह्नावनयस्तु विपद्यपि ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 3.2.4
  • परमानन्दीयनाममाला तिलकतिलकं च ललामे स्याद्रुचके तिलकालके । क्लोमचित्रकयोश्चाथ तुषारः शीतशीकरौ ॥ २२८ ॥ Paramānandīyanāmamālā 5.15.228
  • परमानन्दीयनाममाला दहनदासेरः करभे दासीपुत्रे वह्नौ च दहनः । भल्लाते चित्रके दुष्टचेष्टितेऽपि निबध्यते ॥ २४६ ॥ Paramānandīyanāmamālā 5.16.246
  • परमानन्दीयनाममाला पुण्ड्रपुण्ड्रः कीटे च वासन्त्यां चित्रके तिलकेऽपि च । इक्षुभेदे पुण्डरीके पशुर्मेषे मृगान्तरे ॥ २९६ ॥ Paramānandīyanāmamālā 5.19.296
  • शिवकोष क्कश्चित्रके च सूर्याह्वे वालके तु नपुंसकम् । Śivakoṣa 1.1.1
  • शिवकोष पावकपालङ्कः शल्लकी शाकभेदयोरथ पावकः । भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥ Śivakoṣa 1.3.33
  • शिवकोष धनञ्जयतृणशून्यं तु केतक्यां मल्ल्यां च तृणशून्यवत् । धनञ्जयश्चित्रके स्यादर्जुनेऽरुष्करेऽपि च ॥ ३६४ ॥ Śivakoṣa 21.3.364
  • शब्दरत्नावली पावकपावकोऽग्नौ विडङ्गे च भल्लातके च चित्रके । प्रियकः पीतशाले स्यात् नीपचित्रमृगालिषु ॥ Śabdaratnāvalī 7.1.101
  • शब्दरत्नावली पृदाकुपृदाकुश्चित्रके सर्पे व्याघ्रवृश्चिकयोः पुमान् । पुयुको ना चिपिटके बालकेऽप्यभिधेयवत् ॥ Śabdaratnāvalī 7.1.108
  • शब्दरत्नावली तरुणतरुणः कुब्जपुष्पे ना चित्रके यूनि च त्रिषु । तरणिः पुंसि मार्तण्डे कुमारीनौकयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.15.37
  • शब्दरत्नावली दहनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • त्रिकाण्डशेष तिलकतिलकं चित्रके क्लोम्नि ना तरौ तिलकालके । गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥ Trikāṇḍaśeṣa 3.3.25
  • वैजयन्ती अग्निगुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ Vaijayantī 8.6.2