कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रसक

rasakaपुं · masc.

In 7 kośas: 13 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.88 · p. 20
शूल्यं शूलाकृतं मांसं निष्क्वाथो रसकः समौ ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.289 · p. 164
निक्वाथो रसकस्तुल्यावथ स्याद्वेसवारकः ।शुण्ठीमरिचवैदेहीधान्यकाजाजिदाडिमः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.583 · p. 197
मयूरतुत्थं नीलाश्म मथान्यद्रयकं पुनः ।खर्परी खर्परीतुत्थं चक्षुष्यं रसकं पुनः ॥ ५८३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.86 · p. 211
कत्तोयं हारहूरं च कापिशायनमित्यपि ।चषको रसकः सीधुरस्त्रियां कापिशं च षण् ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.97 · p. 212
स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् ।स्युर्गल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥ ९७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.80 · p. 111
भृष्टमांसे भटित्रं तु भूतिर्भरुटकं हि तत् ।शूलाकृते शूल्यमुक्तं निष्क्वाथरसकौ समौ ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.619 · p. 80
शूल्यं शूलाकृतं मांस जानीयात् मांसभक्षकः ।मांसानाञ्च रसः प्रोक्तो निष्क्वाथो रसकस्तथा ॥ ६१९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1449 · p. 175
रसको मांसनिष्क्वाथः पिष्टमांसकृतो रसः ।सौरावोऽसौ निर्लवणः शुष्कस्तु लवणोत्तरः ॥ १४४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.35 · p. 43
वैकृन्तः स्याद्रसवरो रसज्ञो व्योमधारणः ।रसकस्त्वयसस्मारो विकारो लोहजः कुशी ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.198 · p. 99
संस्कारमात्रजः स्वप्नः कामिको रसकोऽपि च ।अदृष्टजस्त्वत्र चाग्रो दोषजस्त्वांगलौकिकः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.128 · p. 133
यवाग्रजो यावशूकस्तत्रान्त्यो बहुसारकः ।रसाढ्यो रसको योगी पत्रकः पत्रसारकः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.87 · p. 165
वेशवारः पिष्टमांसे पक्वे भूतिस्ततोऽन्यथा ।रसको मांसनिष्क्वाथः पिष्टमांसकृतो रसः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.40 · p. 199
रसकोपशाडबिकौ कषाये वलजः पुनः ।तिक्ते तिक्तपटुस्वादुकषाये फलसोत्थुसौ ॥ ४० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1481 · p. 176
रसस्य ज्ञातरि स्यात् तु (नै ? वै)कृन्त इति विश्रुते ।अयोभेदे पुमान् सारे त्वयसो रसकः पुमान् ॥ १४८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1482 · p. 177
मांसस्य च स्यान्निष्क्वाथे भेद्यलिङ्गं तु कर्तरि ।धातो रसयतेः स्यात् तु रसज्ञे रसिकस्त्रिषु ॥ १४८२ ॥
अनुष्टुप्