कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · वैश्याध्यायः (2/2)

विशुन्थलवणं संगं सिन्धि सिन्धूद्भवं मुखम् ।संभरी पुनरेतद्वद्रौमकं तु रुमाभवम् ॥ १२१ ॥
3.8.121 · p. 133
अनुष्टुप्
वस्नं चाथो भूलवणं कनिष्ठं पाक्यमुद्भिदम् ।क्षुद्रकं पांसुलवणं कुप्यं पानीयसंभवम् ॥ १२२ ॥
3.8.122 · p. 133
अनुष्टुप्
ऊषमूषरजं क्षेत्र्यं पांसुजं यवनं पटु ।शूलिका तु महाजाली वेष्टावारं महाविडम् ॥ १२३ ॥
3.8.123 · p. 133
अनुष्टुप्
विडं तु पाक्यं बहुलं कृत्रिमद्रावणासुराः ।घटिकालवणं तूग्रं विडवद्धनकालकम् ॥ १२४ ॥
3.8.124 · p. 133
अनुष्टुप्
सौवर्चलं तु रुचकं दुर्गन्धं शूलनाशकम् ।अक्षं तार्क्ष्यं रुचिष्यं च तिलकं त्वत्र कृष्णके ॥ १२५ ॥
3.8.125 · p. 133
अनुष्टुप्
सौवर्चलं द्रवस्तु स्याज्जारणं लोहितोऽस्त्रियाम् ।दशेत्थं लवणानि स्युरथोपलवणास्त्रयः ॥ १२६ ॥
3.8.126 · p. 133
अनुष्टुप्
तत्र क्षारो यवक्षारो निपीती काप्तनुद्वरः ।श्वेतक्षारस्तीक्ष्णरसो विपाकी च स तु द्विधा ॥ १२७ ॥
3.8.127 · p. 133
अनुष्टुप्
यवाग्रजो यावशूकस्तत्रान्त्यो बहुसारकः ।रसाढ्यो रसको योगी पत्रकः पत्रसारकः ॥ १२८ ॥
3.8.128 · p. 133
अनुष्टुप्
वीज्योऽसुवर्चिका क्षारः कपोतः सुखवर्चकः ।स्नुघ्निका स्वर्जिका स्वर्जिर्योगवाही सुवर्चिका ॥ १२९ ॥
3.8.129 · p. 133
अनुष्टुप्
टंकणस्तु क्रामणको लोहसंश्लेषकः कटुः ।रसयोनिः पावनको मालतीतीरसंभवः ॥ १३० ॥
3.8.130 · p. 133
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्रा (wrong syllable); pāda 3, syllable 5 पा (wrong syllable)
परशुः शस्त्रकष्टंकः शस्त्रक्षारो महाबलः ।सहस्रवेधि बाह्लीकं जतुकं हिंगु रामठम् ॥ १३१ ॥
3.8.131 · p. 133
अनुष्टुप्
पत्रेऽस्य करवी बाष्पी पृथ्विका कारवी पृथुः ।तिन्तृणीके तु वृक्षाम्लं चुक्रं शुक्ती रुचिः स्त्रियाम् ॥ १३२ ॥
3.8.132 · p. 134
अनुष्टुप्
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।गृधः क्षारस्य विकृतौ मत्स्यण्डी खण्डशर्करा ॥ १३३ ॥
3.8.133 · p. 134
अनुष्टुप्
फाणितं क्षुद्रकं खण्डं न स्त्र्यथो शर्करा सिता ।मधूलं तु मधुर्न स्त्री मधुकं तत्पुरातनम् ॥ १३४ ॥
3.8.134 · p. 134
अनुष्टुप्
भ्रामरं तु भ्रमरकं क्षौद्रं सारघमाक्षिके ।अन्वर्थं पौत्तिकं दालं दद्रुजं रूक्षवालुकम् ॥ १३५ ॥
3.8.135 · p. 134
अनुष्टुप्
औद्दालकं तु शालाकं विषजिन्मधुराम्लकम् ।छात्रं सर्वौघमत्यर्थस्वाद्विमा मधुजातयः ॥ १३६ ॥
3.8.136 · p. 134
अनुष्टुप्
मदनस्तु मधूछिष्टं स्नेहोऽस्त्री पिच्छिले रसे ।स्नेहे तिलानां तैलं स्यादन्येषां नामपूर्वकम् ॥ १३७ ॥
3.8.137 · p. 134
अनुष्टुप्
घृतमाज्यं हविः सर्पिः कौंभं त्वाज्यं दशाब्दिकम् ।हैयंगवीनं पीथं च नवनीतं च तक्रजम् ॥ १३८ ॥
3.8.138 · p. 134
अनुष्टुप्
दधि विप्रप्रियं हृद्यं क्षीरजं श्रीघनं गुरु ।स्थूलं श्वेतं च मंगल्यं कट्वारः शण्डगोरसौ ॥ १३९ ॥
3.8.139 · p. 134
अनुष्टुप्
संजावने तूप्तमात्रे प्राङ्मन्दात् सर्जकं दधि ।मन्दन्तु मण्डजातं तद्बालजातं तु बालकम् ॥ १४० ॥
3.8.140 · p. 134
अनुष्टुप्
अम्लजुण्डी तु गर्भात् प्राग्गर्भस्तु मुखबन्धनम् ।वलीमुखं तु गाढास्यं तत्स्थं तु सशरं दधि ॥ १४१ ॥
3.8.141 · p. 134
अनुष्टुप्
छिन्नं दधि बुसं रूक्षं खलं सेव्यं च निश्शरे ।बहुसूदनमप्यस्मिन्द्रप्सं स्यादघनं दधि ॥ १४२ ॥
3.8.142 · p. 134
अनुष्टुप्
पत्रलं चाथ पक्वं स्यात् संजातं पयसः शृतात् ।धुक्षिमं तूद्धृतस्नेहान्मथितात्तु प्रमाथितम् ॥ १४३ ॥
3.8.143 · p. 134
अनुष्टुप्
तक्रपिण्डञ्चाथ मस्तु प्राग्राढं दधिमण्डके ।आतंचनं संजावनं प्रतीवापश्च मूतकम् ॥ १४४ ॥
3.8.144 · p. 135
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 जा (wrong syllable)
पयो दुग्धं च पीथं च स्तन्यं पुंसवनं सरम् ।गव्यं ज्येष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ॥ १४५ ॥
3.8.145 · p. 135
अनुष्टुप्
ऊधस्यं जीवनीयं च धारोष्णं त्वमृतं पयः ।आसप्ताहात्तु पीयूषं ततो मोरटमोरके ॥ १४६ ॥
3.8.146 · p. 135
अनुष्टुप्
अविसोढाविमरीसे अविदूसमवेः पयः ।संतानिनी क्षीरशरः शरोग्रद्रवसंहतिः ॥ १४७ ॥
3.8.147 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
तिलाटः कुर्चिका चेति क्षीरस्य विकृती उभे ।घोलं तूग्रं कालशेयं दण्डाहतरसायने ॥ १४८ ॥
3.8.148 · p. 135
अनुष्टुप्
मोरटं गोरसश्चाथ घोलः पादांबुसंयुते ।तक्रं कट्वरमर्शोघ्नं श्वेतच्छाणञ्च सारणम् ॥ १४९ ॥
3.8.149 · p. 135
अनुष्टुप्
निरंबु घोलं मथितमुदश्वित्तु जलार्धकम् ।
3.8.150 · p. 135