All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
सामान्यकाण्डः · गुणाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां सामान्यकाण्डे धर्मकर्माध्यायः
गुणो जसुर्द्रव्यपदो द्वौ स्नेहे मार्जमार्जनौ ।मसृणत्वे तु मारुंगक्रासनौ द्रवणे द्रुतिः ॥ १ ॥
5.3.1 · p. 196
अनुष्टुप्
खादीनां तु गुणाः शब्दः स्पर्शो रूपं रसः क्रमात् ।गंधश्चेतीन्द्रियार्थास्ते विषया गोचराश्च ते ॥ २ ॥
5.3.2 · p. 196
अनुष्टुप्
सत्यं तथ्यमृतं सम्यक् समीचीनं तथार्थवाक् ।कर्कशे परुषो रूक्षो मठरः खोरणः खरः ॥ ३ ॥
5.3.3 · p. 196
अनुष्टुप्
उत्क्षुद्रलोऽथ मसृणे श्लक्ष्णसोमालचिक्कणाः ।पिच्छिले स्याद्विजविलः कठिने खरटः खटः ॥ ४ ॥
5.3.4 · p. 196
अनुष्टुप्
कठोरनिष्ठुरक्रूरदृढदारुणकक्खटाः ।खरश्च सुकुमारे तु कोमलो मृदुलो मृदुः ॥ ५ ॥
5.3.5 · p. 196
अनुष्टुप्
शीतले शीकरः शीतः सुषिकः सुषिमो जडः ।समीकः सोलिकः सोलः स्कन्दोलो मेकलस्तलः ॥ ६ ॥
5.3.6 · p. 196
अनुष्टुप्
तुषारः शिशिरः स्फीतः सेभ्यः सीमो हिमोऽपि च ।उष्णं ज्वलः खरः क्रूरो बालस्तिग्मः कृशश्चुपः ॥ ७ ॥
5.3.7 · p. 196
अनुष्टुप्
सोमलोऽवह्निको व्यक्तस्तालको जलशीनकः ।अङ्गारो दहनस्तप्तः प्रुष्वो धूम्रः प्रतापनः ॥ ८ ॥
5.3.8 · p. 196
अनुष्टुप्
तीक्ष्णश्चण्डोल्बणप्रोन्द्रकरालिविकरालिनः ।मन्दोष्णमोष्णं कोष्णञ्च कवोष्णञ्च कदुष्णवत् ॥ ९ ॥
5.3.9 · p. 196
अनुष्टुप्
शुक्ले शुभ्रशुचिश्वेताः पुण्ट्रको धवलोऽर्जुनः ।अवदातः सितो गौरो विशदश्येतपाण्डराः ॥ १० ॥
5.3.10 · p. 196
अनुष्टुप्
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
5.3.11 · p. 196
अनुष्टुप्
उत्पिशस्तु सितश्यामे हरिणे पाण्डुपाण्डरौ ।कपोतस्तु कपोताभः पद्मः पीतसितासितः ॥ १२ ॥
5.3.12 · p. 197
अनुष्टुप्
पिंजो नीलसितश्यामः सोवालः कृष्णधूमलः ।सितकाचस्तु पिंगाणः कण्डारः सितकाचरः ॥ १३ ॥
5.3.13 · p. 197
अनुष्टुप्
वरालः सितपिंगाणः स्तोकपाण्डुस्तु धूसरः ।कोसलः पाण्डुलः श्यामश्चाटः कृष्णहरिः सितः ॥ १४ ॥
5.3.14 · p. 197
अनुष्टुप्
वलक्षस्तु सितश्यामः सैराभः श्वेतपीतलः ।सितपीतहरिन्नीलस्तरलो वृद्धपत्रवत् ॥ १५ ॥
5.3.15 · p. 197
अनुष्टुप्
रक्तपीतासितश्येते बोलः कारीषभस्मवत् ।उत्पिशाद्यास्त्वमी मिश्रवर्णाः शुक्लप्रधानकाः ॥ १६ ॥
5.3.16 · p. 197
अनुष्टुप्
शोणोऽरुणश्च संध्याभः श्वेतरक्तस्तु पाटलः ।मरालोऽल्पः पीतरक्तः पीतरक्तस्तु पिंजरः ॥ १७ ॥
5.3.17 · p. 197
अनुष्टुप्
बभ्रुः कडारः कपिलो विदग्धो दुष्टरक्तवत् ।श्यावे तु कपिशः पिंगे पिशंगः कद्रुपिंगलौ ॥ १८ ॥
5.3.18 · p. 197
अनुष्टुप्
नीलपीतारुणः शारो जोणालो नीललोहितः ।इति लोहितवर्गीणा अथ पीतप्रधानकाः ॥ १९ ॥
5.3.19 · p. 197
अनुष्टुप्
सेरालोऽल्पसितः पीतः पेरालः पीतधूमलः ।पीतश्यामल ओरालो गौरः स्यात्पीतलोहितः ॥ २० ॥
5.3.20 · p. 197
अनुष्टुप्
कीनाशः पीतहरितो हरितो नीलपीतलः ।कृष्णवर्ग्याः पुनर्धूम्रधूमलौ कृष्णलोहिते ॥ २१ ॥
5.3.21 · p. 197
अनुष्टुप्
पीतकृष्णहरिद्राभः काचरः कृष्णधूमलः ।कृष्णपीतस्तु काचोऽथ पालाशो हरितो हरित् ॥ २२ ॥
5.3.22 · p. 197
अनुष्टुप्
तारावतारकिर्मीरशबलैतास्तु चित्रके ।स चान्योन्यानवष्टंभान्नानावर्णसमुन्नयः ॥ २३ ॥
5.3.23 · p. 197
अनुष्टुप्
कर्बुरः शुक्लहरित आरुः स्यात्कृष्णपिंगलः ।सितकृष्णस्तु कल्माषः पिंजूषः सितकाचरः ॥ २४ ॥
5.3.24 · p. 197
अनुष्टुप्
कृष्णरक्तसितः शारः क्रिमिरः सितलोहितः ।मधुरस्तु रसज्येष्टो गुली स्वादुर्भधूलकः ॥ २५ ॥
5.3.25 · p. 198
अनुष्टुप्
अम्लस्तु पाचनः शुक्तो लवणस्तु पटुः सरः ।ऊषणस्तु कटुस्तीक्ष्णस्तिक्तस्तु विसरः कटुः ॥ २६ ॥
5.3.26 · p. 198
अनुष्टुप्
कषायोऽस्त्री स्वप्रतिष्ठस्तुवरो मधुरांगकः ।मधुराम्लौ सलवणौ कटुतिक्तकषायकाः ॥ २७ ॥
5.3.27 · p. 198
अनुष्टुप्
षट् ते मूलरसाः शेषा रसका योगयोनयः ।स्युः शाडववराश्र्यूषाः श्र्यूष आसोऽपि च क्रमात् ॥ २८ ॥
5.3.28 · p. 198
अनुष्टुप्
अम्लाद्या मधुरोपेताः सांम्लास्तु लवणादयः ।चाटसस्तीक्ष्णचो रूषः शुक्तश्च लवणेन तु ॥ २९ ॥
5.3.29 · p. 198
अनुष्टुप्
युक्ता वैखारकः क्षारः स्वाद्यश्च कटुकादयः ।तिक्तिकः कटुतिक्ते स्यात् कुल्या कटुकषायके ॥ ३० ॥
5.3.30 · p. 198
अनुष्टुप्
तैलित्सस्तिक्तकाषाय एवं पंचदश द्विकाः ।क्रमेण शोणिकः श्यावो रातपं रागशालवः ॥ ३१ ॥
5.3.31 · p. 198
अनुष्टुप्
सस्वाद्वम्ला लवणाद्याः सस्वादुलवणेषु तु ।कटुकादिषु कट्वारो माधुरो मधुकः क्रमात् ॥ ३२ ॥
5.3.32 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
तिक्तकषायौ सस्वादुकटू मधुमधूलिकौ ।स्वादुतिक्तकषाये तु मधूलोऽमी दश त्रिकाः ॥ ३३ ॥
5.3.33 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क्त (wrong syllable)
कट्वाद्याः साम्ललवणा बोसरः खलुषः क्रमात् ।कोलश्चाथो साम्लकटू कलुषत्रिखरौ क्रमात् ॥ ३४ ॥
5.3.34 · p. 198
अनुष्टुप्
कषायतिक्तौ सोलस्तु शुक्ततिक्तकषायके ।अम्लतिक्तकषायेऽस्मिन् बालाम्लो बालचूतकः ॥ ३५ ॥
5.3.35 · p. 198
अनुष्टुप्
कटुतिक्तकषाये स्यात्तदेवं विंशतिस्त्रिकाः ।स्वाद्वम्ललवणोपेताः कट्वाद्या मधुमालकः ॥ ३७ ॥
5.3.37 · p. 199
अनुष्टुप्
मधुबोलः सोरणश्च क्वचिदंत्यः करोलकः ।सस्वाद्वंम्लकटौ तिक्ते लीसुषः परुषः पुनः ॥ ३८ ॥
5.3.38 · p. 199
अनुष्टुप्
कषायेऽत्रैव कलुषाकषायौ जालनः पुनः ।स्वाद्वंम्लतिक्ततुवरे सस्वादुलवणोषणे ॥ ३९ ॥
5.3.39 · p. 199
अनुष्टुप्
रसकोपशाडबिकौ कषाये वलजः पुनः ।तिक्ते तिक्तपटुस्वादुकषाये फलसोत्थुसौ ॥ ४० ॥
5.3.40 · p. 199
अनुष्टुप्metre not read in every line
सस्वादुकटुतिक्ते तु कषाये स्यात्कलापकः ।जलोलकः साम्लपटुकटौ तिक्ते कषायके ॥ ४१ ॥
5.3.41 · p. 199
अनुष्टुप्
तुवरः स्यात्कुवेलश्च खरस्तु लवणे युते ।अम्लतिक्तकषायैस्तैः संयुते पलुषः कटौ ॥ ४२ ॥
5.3.42 · p. 199
अनुष्टुप्
कट्वाद्यालोडकास्त्वेवं चतुष्का दश पंच च ।स्वादुमेकं विहायान्ये युक्ताः पंच स्युरोलकः ॥ ४३ ॥
5.3.43 · p. 199
अनुष्टुप्
आलुकस्तु विहायाम्लं पटुं हित्वा परांजनः ।ओलकः कटुकं हित्वा विना तिक्तेन चोलकः ॥ ४४ ॥
5.3.44 · p. 199
अनुष्टुप्
समोलकः कषायेण षडेवं पंचका रसाः ।षट्कस्त्वेकः षड्रसः स्यात् त्रिषष्टिःस्युस्ततो रसाः ॥ ४५ ॥
5.3.45 · p. 199
अनुष्टुप्
मधुराम्लादिसंज्ञाश्च शाडवादौ समुन्नयेत् ।न स्यात्पूर्वरसस्याख्या परावररसाह्वयात् ॥ ४६ ॥
5.3.46 · p. 199
अनुष्टुप्
सुरभ्यसुरभी गन्धौ विभिन्नौ तौ च योगतः ।बहुधा तत्र सुरभिः कटुस्तिक्तः कषायकः ॥ ४७ ॥
5.3.47 · p. 199
अनुष्टुप्
समष्टिरप्यतोऽन्यो यो गन्धोऽसुरभिरित्यसौ ।मल्लिकायां स्थितो गन्धो मङ्गल्या मङ्गलश्च सः ॥ ४८ ॥
5.3.48 · p. 199
अनुष्टुप्
जात्यां सौमनसो नागकेसरे गन्धसारणः ।चंपके सुरभिः पद्मे वासनः कुटजे घुणः ॥ ४९ ॥
5.3.49 · p. 199
अनुष्टुप्
कस्तूरिकायामामोदः कुंकुमे पलशीनकः ।पारिहाव्यो मरुवके पाटले तृणशोणकः ॥ ५० ॥
5.3.50 · p. 200
अनुष्टुप्
चन्दने चन्द्रिकः साले शोणो गन्धिक उत्पले ।केतके शोणितं सर्जधूपे सरलशोणिकः ॥ ५१ ॥
5.3.51 · p. 200
अनुष्टुप्
वकुले स्यात् परिमलो वलनोऽगरुधूपके ।सहकारे सरलिको गुग्गुलौ त्ववलोलुकः ॥ ५२ ॥
5.3.52 · p. 200
अनुष्टुप्
कुन्दोपरालो मदने दुलो जम्बीर(के स्थितः) ।मल्ल्यां (स्थितस्तु) खवुकः कर्पूरे मुखवासनः ॥ ५३ ॥
5.3.53 · p. 200
metre not recognised
आ ये समशनोऽशोके सुरवस्तिलके कुलः ।गोत्रे गन्धो गन्धके तु गन्धिकः पित्तले लसः ॥ ५४ ॥
5.3.54 · p. 200
अनुष्टुप्
गुदवायौ तु दुर्गन्धः किट्टे कोलः कफे घनः ।मत्स्यत्वच्यामिषो निंबे तिक्तको गोमुखे सणिः ॥ ५५ ॥
5.3.55 · p. 200
अनुष्टुप्
उद्दंशे देहलिर्गोविण्मूत्रयोर्मुकमुर्मुरौ ।शुक्ले मांसिर्मदे रूक्षो मूत्रिते त्वन्धमेहलः ॥ ५६ ॥
5.3.56 · p. 200
अनुष्टुप्
स्नेहदोषे मेचटिको गूधे स्थालिकवैणिकौ ।चिस्रो यकृति पूये तु पूतिर्मूत्रे तु मेहलः ॥ ५७ ॥
5.3.57 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)
दुष्टव्रणे तु कथितो रुधिरे त्वाममांसकः ।गन्धशब्दास्त्वमी योज्याः साम्याद्द्रव्यान्तरेष्वपि ॥ ५८ ॥
5.3.58 · p. 200
अनुष्टुप्
एते सत्यादयः शब्दाः शब्दस्पर्शादिगोचराः ।उक्तलिङ्गा गुणार्थास्ते सर्वेऽपि गुणिनि त्रिषु ॥ ५९ ॥
5.3.59 · p. 200
अनुष्टुप्