कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संवत्

saṃvatअ · indecl.

In 9 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.1535 · p. 57
प्राक्पुरा प्रथमे संवद्वर्षे परस्परं मिथः ॥ १५३५ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.16
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.20 · p. 459
संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे ।अथावश्यं निश्चिते स्यान्नूनं निरपि चैव ते ॥ २० ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.98 · p. 50
संवदव्ययमस्मिंस्तु पूर्वे पूर्वतरे य(स)ति ।परुत्परार्यैषमः स्युः परुत्नं तद्भवे त्रिषु ।परारित्नं चैषमस्त्यमैषमस्तनमित्यपि ॥ ९८ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.147 · p. 23
संवत्संवत्सरौ तुल्यौ भूम्न्येव समाः स्त्रियाम् ।अब्दं शरद्भवेत्पैत्रमहोरात्रं तु मासतः ॥ १४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.158 · p. 22
तथाऽनुवत्सरोऽब्दं च हायनः परिवत्सरः ।उद्वत्सरः समाः वत्सः संवत् च कथ्यते बुधैः ॥ १५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2797 · p. 456
प्राक् पुरा प्रथमे स्याद्वै संवत् संवत्सरे तथा ।मिथः परस्परं प्रोक्तं निशान्ते ज्ञायतामुषा ॥ २७९७ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.294 · p. 21
संवत्सरो हायनोऽस्त्री वत्सरः शरदा शरत् ।अब्दो वर्षञ्च वरिषं समाः स्त्री संवदित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.51 · p. 181
वरिषः शारदोपेता शरत् संवदनव्ययम् ।अव्ययं च, समा स्त्रीत्वे वा बहुत्वे च तद्भिदि ॥ ५१ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.10 · p. 287
सायं साये प्रगे प्रातः काल्ये संवत्तु वत्सरे ।अतीतानन्तरे वर्षे परारि परुदेषमः ॥ १० ॥
अनुष्टुप्
genderअindecl.