कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हायन

hāyanaपुं · masc.

In 16 kośas: 27 synonym verses, 6 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.77 · p. 10
स संपर्यनूद्भ्यो वर्षं हायनोऽब्दं समाः शरत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नू (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.20
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.116 · p. 15
हायनाब्दशरद्वर्षसंवत्सरसमाः समाः ।निदाघः कथ्यते ग्रीष्मो वर्षाः प्रावृट् तपात्ययः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.260 · p. 89
महाबुसो हायनश्च माषस्तु मलदो बली ।मुद्गस्तु प्रथनो लोह्यः पीतेऽस्मिन् वसुखण्डिकः ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त ऋत्वयनवर्षसंज्ञा Gaṇitanāmamālā 22.2 · p. 5
वर्षाब्दहायनशरः संवत्सरः समा स्मृतः ।
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.21 · p. 134
पुष्पाण्डको दीर्घतालो महादूषकदूषकौ ।पतङ्गकः काञ्चनको हायनोप्यथ षष्टिकाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.34 · p. 136
हायनः कुशवाकः स्याद्घटप्रच्छोथ षष्टिकाः ।षष्टिरात्रेण ये क्षेत्रे परिपक्वा भवन्ति ते ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.73 · p. 413
ससंपरीदेदनुभ्यो युगांशो हायनोऽस्त्रियाम् ।ऋतुवृत्तिर्मासमालः कालग्रन्थिः शरत्स्त्रियाम् ॥ ७३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.20 · p. 441
एवं त्रिंशद्दिनो मासस्तेऽपि द्वादश हायनम् ।तेषां शत ब्राह्मणः स्यादायुर्नास्त्यत्र संशयः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.50 · p. 466
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.70 · p. 469
बर्होछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः ।मस्तुः सक्तौ वर्हिवव्रे स्यादच्छः स्फटिकेऽपि च ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.166 · p. 479
हायनस्तेनमानानां तथैव धनमानयोः ।मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.97 · p. 50
संवत्सरो वत्सर-काल-पर्व-युगांशकाः शारदमासमासौ ।अब्दोऽत्र वर्षं च न हायनः स्त्रीसमाः स्त्रियां भूम्नि च वा शरदः स्त्री ॥ ९७ ॥
उपजातिःmetre not read in every linenearly उपजातिः
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.10 · p. 94
यानवाचकपरो युगस्तथाकेवलोऽपि च स यूपवाचकः ।वाद्यमुद्गरविवर्जितो घनेव्रीहिनामनि तथैव हायनम् ॥ १० ॥
रथोद्धता
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.51 · p. 113
genderपुंक्लीm. n.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.2034 · p. 225
चम्पकाख्ये नप्स्त्रियोस्तु हारणं हारणेति च ।अर्थे हारयतेरस्त्री पुनर्हायन इत्ययम् ॥ २०३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.146 · p. 23
ऋतुभिश्च त्रिभिश्चैकमयनं परिकीर्तितम् ।अयने द्वे भवेद्वर्षं वत्सरो हायनः समाः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.11 · p. 212
हायनो व्रीहिगः पुंसि वह्नौ बर्हिस्तथा नरे ।मस्तुर्धानाविकारे त्वच्छो नरे स्फटिकार्थगः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.145 · p. 229
समानो वर्धमानश्च विमाननिधने अपि ।हायनस्थानयानानि वस्नोद्यानासनानि च ॥ १४५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.83 · p. 10
शिशिरश्चेति विज्ञेया ऋतवः षट् द्विमासिकाः ।अब्दः संवत्सरो वर्षं वत्सरो हायनः शरत् ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.158 · p. 22
तथाऽनुवत्सरोऽब्दं च हायनः परिवत्सरः ।उद्वत्सरः समाः वत्सः संवत् च कथ्यते बुधैः ॥ १५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.294 · p. 21
संवत्सरो हायनोऽस्त्री वत्सरः शरदा शरत् ।अब्दो वर्षञ्च वरिषं समाः स्त्री संवदित्यपि ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.259 · p. 35
समाः स्त्रियः शरत्स्त्री स्यादस्त्रियौ वर्षहायनौ ।संवत्सरो वत्सरोऽब्दः कृताद्यं तु चतुर्युगम् ॥ २५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1414 · p. 171
रोहितो रक्तशालिः स्यात् श्वेतशालिस्तु सूकरः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ १४१४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1415 · p. 171
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.34 · p. 125
षष्टिको गर्भपाकी स्यात्प्रवरः शालियष्टिकः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.108
कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः ।वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.34 · p. 114
हायनास्तु समाख्याता व्रीहिसंवत्सरार्चिषः ।गोस्तनो हारभेदे च द्राक्षा तु गोस्तनी मता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.48 · p. 254
स्याद्धायनोऽस्त्री किरणे च वर्षेव्रीहौ तु ना फल्गुनफाल्गुनौ तु ।तपस्यमासे हरिसारथौ चनद्यर्जुने स्त्री तु स पौर्णमास्याम् ॥ ४८ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.2035 · p. 225
वत्सरेऽर्चि(ष्य ? षि) ना तु स्याच्छालिभेदे द्विषत्यपि ।हारिता त्वविवाह्यासु कन्यकासु कचित् स्त्रियाम् ॥ २०३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.99 · p. 242
हस्तिनी हस्तिकामिन्यां योषिज्जातिभिदि स्त्रियाम् ।हसन्यङ्गारधान्यां स्त्री हासे हसनमित्यपि ।हायनोऽस्त्री वत्सरे ना वहयर्चिर्व्रीहिभेदयोः ॥
अनुष्टुप्metre not read in every line
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.84 · p. 246
हर्यक्षो धनदे सिंहे व्रीह्यब्दार्चिः षु हायनः ।महोदरेपि हेरंबो हरिमा मृत्युरोगयोः ॥ ८४ ॥
अनुष्टुप्

हायन as a meaning in nānārtha verses