समांसमीना
samāṃsamīnāस्त्री · fem.In 11 kośas: 12 synonym verses.
genderस्त्रीfem.
genderस्त्रीfem.
काल्योपसर्या प्रजने प्रसिद्धा,परेष्टुका च प्रचुरप्रसूतिः ।विजायते या प्रतिवत्सरं गौः,समांसमीनेति निगद्यतेऽसौ ॥ २७२ ॥
उपजातिः
genderस्त्रीfem.
गौमयी शुभार्घ्या सा बहुक्षीरा तु वञ्जुला ।समांसमीना सा गौर्या प्रतिवर्षं प्रसूयते ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
समांसमीनाथापीनमूधः क्लीबे तु पुंसि वा ।स्यादस्त्रियां गोमयं तु पवित्रमुपलेपनम् ॥ ४६५ ॥
अनुष्टुप्
genderस्त्रीfem.
अद्यश्वीना तु सा गोः स्याद्याद्यश्वो वा विजायते ।सुपुच्छी तु सुपुच्छा स्याच्चित्रपुच्छा तु सा भवेत् ॥नित्यं कम्बरपुच्छ्येव व्याघ्रपुच्छी तु तादृशी ।समांसमीना प्रत्यब्दं या सूतेऽमी तु भेद्यवत् ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
समांसमीना संप्रोक्ता प्रतिवर्षप्रसूतिका ।द्रोणदोग्ध्री द्रोणदुघा निक्षीरा स्रग्विणी मता ॥ ५०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
genderस्त्रीfem.
पलिक्नी मन्यते सैव बालगर्भवती च या ।समांसमीना गौः स्याद्या प्रतिवर्षं प्रसूयते ॥ २२९३ ॥
अनुष्टुप्
genderस्त्रीfem.
समांसमीना प्रत्यब्दप्रसूता या गवी भवेत् ।स्याद्बन्धके स्थिता धेनुर्धेनुष्या परिकीर्तिता ॥
अनुष्टुप्
genderस्त्रीfem.
समांसमीना शालाञ्ची हरिद्रा दर्वी सिध्रका ।तर्दूः स्रक् कणिका खल्ली मन्दुनी छर्दिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वी (wrong syllable)
genderस्त्रीfem.
प्रत्यब्दसूतिस्तु समांसमीनापरेष्टुका स्यात् प्रचुरप्रसूतिः ।काल्योपसर्या प्रजनेऽवतोकाप्रस्कन्दिगर्भाथ वशा तु वन्ध्या ॥ ७५० ॥
उपजातिः
genderस्त्रीfem.
चिरसूता बष्कयणी गृष्टिः सूतवती सकृत् ।समांसमीना सा गौर्या प्रतिवर्षं प्रसूयते ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
genderस्त्रीfem.