हरिद्रा
haridrāस्त्री · fem.In 16 kośas: 19 synonym verses, 1 as a nānārtha head word, 54 as a meaning of another word.
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी ।
अनुष्टुप्
genderस्त्रीfem.
निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी ।
अनुष्टुप्
genderस्त्रीfem.
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी वरा ।रोचनी रञ्चनी पीता पिञ्जा पिण्डमनः शिला ॥ २५० ॥
अनुष्टुप्
genderस्त्रीfem.
गुल्मकेतुश्चापि भेदी वेधि स्याच्छङ्खमांसयोः ।हरिद्रा रञ्जनी स्वर्णर्णा वर्णवती वरा ॥ २०९ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
मांसीहरिद्रालूदूर्वावलाकाकृष्णलागिराम् ।यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शिलीनं गोमयच्छत्रं गोनासं भूतकेसरम् ।भूमिस्फोटश्छत्रकश्च छत्राकं तु नपुंसके ।अजशृङ्गी हरिद्रा च विदारी सारिवामृता ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवटु-तिथि-शिलानामुष्णिकाहिङ्गुपत्री-शिमिपृथुकटभीनामङ्गुलीनाकुलीनाम् ।स्फिगतसिजटिलालू-ग्ना-हरिद्राबलाका-मुखजलहरिताली-कङ्गु-गोधा-विधाना[223b]म् ॥ २९ ॥
मालिनी
genderस्त्रीfem.
पटोलः पाण्डुरः पाण्डुफलो राजीफलश्च सः ।हरिद्रा रजनी पीता पीतिका रञ्जनी च सा ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
रोचनासरघालक्ष्मीधाय्यादूर्वागिरः स्त्रियाम् ।हरिद्राकृष्णलामांसिबलाकालूमुखा अपि ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
पृथ्वी कबरिका चाथ निशाख्या काञ्चनी तथा ।पीता हरिद्रा चाथ स्यादक्षीबं वशिरं तथा ॥ ४६० ॥
अनुष्टुप्
genderस्त्रीfem.
हरिद्रा वरवर्णिनी निशा पीता च काञ्चनी ॥ ६२७ ॥
metre not recognised
genderस्त्रीfem.
पीतद्रुश्च हरिद्रुश्च पर्जनी स्यात् पचम्पचा ।कालेयको हरिद्रा च तथा कालीयकोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
हरिद्रा काञ्चनी पीता निशाख्या पीतवालुका ।हेमनाशा भङ्गवासा घर्षिणी वरवणिनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 व (wrong syllable)
genderस्त्रीfem.
समांसमीना शालाञ्ची हरिद्रा दर्वी सिध्रका ।तर्दूः स्रक् कणिका खल्ली मन्दुनी छर्दिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वी (wrong syllable)
genderस्त्रीfem.
निशाह्वा सुवहा पीता हरिद्रा वरवर्णिनी ।शृङ्गी समङ्गा मञ्जिष्ठा विकसा कालमेषिका ॥ ६०२ ॥
अनुष्टुप्
genderस्त्रीfem.
लताशङ्कुतरुः शालो नीपो धाराकदम्बकः ।कटङ्कटेरी हरिद्रा शिंशपा युग्मपत्रिका ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
गृहिणी मधुरा हिङ्गु शूलहृत्सूपधूपनम् ।वर्षिणी हेमरागिण्यो हरिद्रा पीतवालुका ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
गौर्यां हरिद्रा रात्र्याख्या हेमघ्नी काञ्चनी परा ।रोचनी रञ्जनी पीता पिञ्जा पिण्डा मनः शिला ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.
हरिद्रा as a meaning in nānārtha verses
- धरणिकोश पीतालूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे । पीता स्मृता हरिद्रायां पीतं स्यात्पानगौरयोः ॥ Dharaṇikośa 15.2.15
- धरणिकोश वरवर्णिनीगन्धमादन इत्येष गन्धके पर्वतान्तरे । वरवर्णिन्यपि ख्याता हरिद्रायां वरस्त्रियाम् ॥ Dharaṇikośa 19.2.97
- धरणिकोश शर्वरीशर्वरी तु हरिद्रा स्याच्छर्वरी वनिता निशा । शर्करी लेखनी ज्ञेया शर्करी छन्दसो भिदि ॥ Dharaṇikośa 26.2.48
- धरणिकोश निशादशावस्था [100] दशा वर्तिर्वाससोऽवयवो दशा । निशा रात्रौ हरिद्रायां महापूर्वार्धरात्रके ॥ Dharaṇikośa 29.2.2
- कोषकल्पतरु धमनकामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ Koṣakalpataru 6.21.19
- कोषकल्पतरु काञ्चनापुंनागे चोदुम्बरे स्त्री हरिद्रा- वाची किञ्जल्के सुवर्णे च षण्ढे । पाठीनः स्यात्पाठके मीनभेदे तद्वत्कुम्भोलूखलद्रौ प्रदिष्टः ॥ ६५ ॥ Koṣakalpataru 6.21.65
- कोषकल्पतरु रजनीमागध्यांबुधि(?)बोधनी तु रजनी तद्वद्धरिद्रार्थका- याम्भोजे नलिनी भवेत्क[19b]मलिनी स्वःसिन्धुकासारयोः ॥ ९६ ॥ Koṣakalpataru 6.21.96
- कोषकल्पतरु वरवर्णिनीस्त्रीरत्ने वरवर्णिनी वरलिपौ लाक्षाहरिद्राह्वयो- रुक्ता रोचनिकार्थिका Koṣakalpataru 6.21.190
- कोषकल्पतरु उमाशिवा हरिद्रातसिकासु चोमा रुमा तथा स्याल्लवणाकरेऽपि । सुग्रीवपत्न्यां Koṣakalpataru 6.25.25
- कोषकल्पतरु कावेरीस्याज्झल्लरी च झलरी हुडुक्कवाद्ये च बालचक्रे च । कावेरी तु हरिद्रापण्यवधूसिन्धुभेदेषु ॥ ८७ ॥ Koṣakalpataru 6.27.87
- कोषकल्पतरु दार्वीदर्विः फणायां च खजाकिकायां दार्वी हरिद्रासुरदारुणोश्च । कटंकटेर्यामथ शोभनायां बुद्धौ च चार्वी गदिता च पृथ्वी ॥ १२ ॥ Koṣakalpataru 6.29.12
- कोषकल्पतरु निशानिशा हरिद्राह्वययामिनीगा- नीह्वा(?)तितृष्णाककुभोस्तु चाशा । राशिस्तु मेषादिषु पुंसि पुञ्जे पेशी स्त्रियां खड्गपिधानमांस्योः[81b] ॥ १३ ॥ Koṣakalpataru 6.30.13
- नानार्थार्णवसंक्षेप रात्रिसंज्ञाअथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाह्वये । धान्ये रात्रेर्हरिद्रायां भूमेर्मृत्स्नाख्यभेषजे ॥ १ ॥ Nānārthārṇavasaṃkṣepa 2.1.1
- नानार्थार्णवसंक्षेप निशानिशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः । निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 2.1.60
- नानार्थार्णवसंक्षेप गौरीअजातार्तवकन्यायां तीक्ष्णार्जकहरिद्रयोः । घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.381
- नानार्थार्णवसंक्षेप पीताक्ली तु पीतिक्रियायां स्याद् हरिद्रायां तु सा स्त्रियाम् । पीताथ पीथशब्दस्तु क्लीबं क्षीरे जलेऽपि च ॥ ७७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.778
- नानार्थार्णवसंक्षेप बालात्रिर्ना तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः । बाला तु मल्लिकाभेदे हरिद्रायां च सा स्त्रियाम् ॥ ८५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.851
- नानार्थार्णवसंक्षेप वरापथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः । आस्फोताकण्टकार्योश्च वराथ स्याद्वरी इति ॥ ११५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1153
- नानार्थार्णवसंक्षेप वर्णिन्स्त्रीमात्रे स्त्रीविशेषे च हरिद्रायां च वर्णिनी । व्रती व्रतवति त्रि स्याद् द्वे त्वश्वे त्रि तु वन्दिवाक् ॥ १२११ ॥ Nānārthārṇavasaṃkṣepa 2.5.1211
- नानार्थार्णवसंक्षेप काञ्चनीहेम्न्यब्जकेसरे ना तु धुर्धूरे नागकेसरे । उदुम्बरे च रभसो हरिद्रायां तु काञ्चनी ॥ ४३२ ॥ Nānārthārṇavasaṃkṣepa 4.432
- नानार्थार्णवसंक्षेप तरङ्गिन्तरङ्गवति तु त्रि स्यात् तरङ्गी स्त्री तु कीर्तिता । तरङ्गिणी हरिद्रायां निम्नगायां च ना पुनः ॥ ८४३ ॥ Nānārthārṇavasaṃkṣepa 4.843
- नानार्थार्णवसंक्षेप तोषणीतुष्टौ क्ली तोषणी तु स्त्री हरिद्रायामना पुनः । तोषणा तोषयत्यर्थे तोदकस्तु पुमान् सिते ॥ ८९४ ॥ Nānārthārṇavasaṃkṣepa 4.894
- नानार्थार्णवसंक्षेप मेहघ्नीमेनादस्तु द्वयोश्छागे स्यान्मार्जारमयूरयोः । मेहघ्नी तु हरिद्रायां स्त्री त्रिर्मेहस्य हन्तरि ॥ १४४७ ॥ Nānārthārṇavasaṃkṣepa 4.1447
- नानार्थार्णवसंक्षेप रजनीत्रि तु श्वेतेऽथ रजनं रागद्रव्ये नपुंसकम् । रजनी तु हरिद्रायां स्त्री नील्यां चौषधौ निशि ॥ १४८६ ॥ Nānārthārṇavasaṃkṣepa 4.1486
- नानार्थार्णवसंक्षेप रञ्जनीमनःशिलायां च ज्ञेया हरिद्रायां च रञ्जनी । स्यात् तु रञ्जयतेरर्थे रञ्जना स्त्रीनपुंसकम् ॥ १४८८ ॥ Nānārthārṇavasaṃkṣepa 4.1488
- नानार्थार्णवसंक्षेप मनःशिलामरीचिका तथा लिक्षासंज्ञमानेऽप्यदः पुनः । त्रसरेण्वष्टकं स्यात् तु हरिद्रायां मनःशिला ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 6.39
- नानार्थार्णवसंक्षेप विटकान्ताविटकान्ता हरिद्रायां स्त्री समासादि पूर्ववत् । विवृत्ताक्षः पुनर्द्वे स्यात् कुक्कुटे सादि पूर्ववत् ॥ ५७७ ॥ Nānārthārṇavasaṃkṣepa 6.577
- नानार्थार्णवसंक्षेप वरवर्णिनीकस्तूर्यां चाथ कथिता कविभिर्वरवर्णिनी । वरस्त्रियां हरिद्रायामथ स्याच्छकुलादनी ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 7.11
- परमानन्दीयनाममाला पिञ्जापिच्छः पुच्छे कचे वाजे क्लीबलिङ्गमुदाहृतम् । पिञ्जा तूला हरिद्रा च पुष्टिर्वृद्धौ च पोषणे ॥ ३०० ॥ Paramānandīyanāmamālā 5.19.300
- शिवकोष पिङ्गारोचनायां हरिद्रायां पूगः क्रमुकतूदयोः । भृङ्गं नखे त्वचायां भृङ्गो भृङ्गारके मार्गः ॥ ८४ ॥ Śivakoṣa 3.1.84
- शिवकोष पिजाकुब्जस्तरण्यामाघाटे द्विजा कौत्यां च बर्बरे । पिजा तूले हरिद्रायां फञ्जी पद्माविशाल्ययोः ॥ १०६ ॥ Śivakoṣa 7.1.106
- शिवकोष क्षणदाक्षणदा तु हरिद्रायां क्षणदः सर्वतोमुखे । कुमुदं कैरवे पद्मे कुम्भीकट्फलयोः स्त्रियाम् ॥ २२३ ॥ Śivakoṣa 14.2.223
- शिवकोष काञ्चनीउदुम्बरे च धत्तूरे हरिद्रायां तु काञ्चनी । क्लीबेऽब्जकेसरे हेम्नि क्लीतनं क्षौद्रसाह्वये ॥ २४९ ॥ Śivakoṣa 16.1.249
- शिवकोष पीतचन्दनतिक्तपर्वा जलब्रह्मीगुडूचीमधुयष्टिषु । पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ २८३ ॥ Śivakoṣa 16.3.283
- शिवकोष दार्बीदार्बी दारुहरिद्रायां हरिद्रा देवदारुणोः । गोजिह्विकायां निम्बस्तु ह्रीवेरपुचुमर्दयोः ॥ ३१६ ॥ Śivakoṣa 18.1.316
- शिवकोष उमाउमा तु रत्नपत्रायां हरिद्रायामथ क्षुमा ॥ ३२७ ॥ Śivakoṣa 20.1.327
- शिवकोष श्यामाशमी सक्तुफलायां स्याच्छिम्बायां गुग्गुलावपि । श्यामा प्रियङ्गुसरलागोपीगुन्द्राहरिद्रासु ॥ ३३२ ॥ Śivakoṣa 20.1.332
- शिवकोष धारासूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति । धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥ Śivakoṣa 22.2.381
- शिवकोष निशाकुशं जलेऽस्त्रियां दर्भे निशा दार्वीहरिद्रयोः । पांशू रजसि सस्यार्थविरसञ्चितगोमये ॥ ५१२ ॥ Śivakoṣa 25.1.512
- शब्दरत्नावली पिञ्जाश्राद्धादिपात्रभेदे च कुब्जे चाधोमुखे त्रिषु । पिञ्जा तूले हरिद्रायां बले क्लीबं वधे पुमान् ॥ Śabdaratnāvalī 7.8.12
- शब्दरत्नावली पीतापीतिः स्याद्घोटके पुंसि स्त्रियां पाने निगद्यते । पीता स्त्री तु हरिद्रायां पाने क्लीबं सिते त्रिषु ॥ Śabdaratnāvalī 7.16.25
- शब्दरत्नावली काञ्चनीधुस्तूरे डुम्बुरे पुंसि हरिद्रायान्तु काञ्चनी । काञ्चनं शातकुम्भे च स्यात्पद्मकेशरेऽपि च ॥ Śabdaratnāvalī 7.20.43
- शब्दरत्नावली रजनीरञ्जनो रागजनने रञ्जनं रक्तचन्दने । नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥ रजनी रात्रिजतुकाहरिद्रानीलिनीषु च । राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥ राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् । रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥ Śabdaratnāvalī 7.20.69
- शब्दरत्नावली पीतचन्दनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
- शब्दरत्नावली उमाआमोऽपक्वेऽन्यलिङ्गः स्याद्रोगरोगभिदोः पुमान् । उमा गौर्य्यतसी कीर्तिहरिद्राकान्तिशान्तिषु ॥ Śabdaratnāvalī 7.25.2
- शब्दरत्नावली कावेरीकटप्रूः कौणये पुंसि हाहि(?) रुद्रेऽक्षदेवने । कन्दरं कन्दरादर्यां कन्दूरस्त्वङ्कुशे पुमान् ॥ काश्मीरं कुङ्कुमे टङ्के क्लीबं पुष्करमूलके । कावेरी पण्यनार्याञ्च सरिद्भेदहरिद्रयोः ॥ Śabdaratnāvalī 7.27.62
- शब्दरत्नावली निशानाशः पलायने पुंसि निधनानुपलम्भयोः । निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥ Śabdaratnāvalī 7.30.8
- तन्त्राभिधान दहरिद्रा पूरमद्रिश्च दक्षपाणिस्त्रिरेखकः ॥ ११२ ॥ Tantrābhidhāna 2.35.112
- त्रिकाण्डशेष पिञ्जानीरजं कमले कुष्ठे पिञ्जा हिंसाहरिद्रयोः । भारद्वाजो गुरोः पुत्रे व्याघ्राटाख्ये च पक्षिणि ॥ ८५ ॥ Trikāṇḍaśeṣa 3.3.85
- त्रिकाण्डशेष रजनीनिशा हरिद्रा रजनी छदे भूर्जे च लेखनम् । राशीनामुदयो लग्नं सक्तलज्जियोस्त्रिषु ॥ २५७ ॥ Trikāṇḍaśeṣa 3.3.257
- त्रिकाण्डशेष धाराधारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु । धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥ Trikāṇḍaśeṣa 3.3.358
- त्रिकाण्डशेष निशानाशः पलायने मृत्यौ निस्त्रिंशौ खड्गनिर्दशौ । निशा रात्रिर्हरिद्रा च मृगादौ प्रमथे पशुः ॥ ४२९ ॥ Trikāṇḍaśeṣa 3.3.429
- वैजयन्ती वरवर्णिनीवृषाकपायी श्रीगौर्योः शोफघ्न्यां प्रावृषायणी । हरिद्रायां वरायां च रामायां वरवर्णिनी ॥ १३ ॥ Vaijayantī 8.2.13
- वैजयन्ती शर्वरीशर्वर्यास्तु हरिद्रायां प्रियंगुव्रततौ स्त्रियाः । ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ ५ ॥ Vaijayantī 8.6.5