कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तर्दू

tardūस्त्री · fem.

In 9 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.130 · p. 40
कम्बिर्दर्विः खजाकाथ स्यात्तर्दूर्दारुहस्तकः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.58
दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.312 · p. 37
दर्वी तर्दूश्च खजिका कथ्यते दारुहस्तकः ।पेटां वदन्ति मञ्जूषां कुशूलं धान्यकोष्ठकम् ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.108 · p. 144
तर्दूः स्त्रियां काष्ठलोही शतर्द्धी स्यादथापरा ।स्यात्पल्लिका कुन्तलिका दध्यादिच्छेदिनी तु या ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.61 · p. 276
मांस्पाकपात्रं कन्दुस्तु द्वयोः स्यात्स्वेदनी स्त्रियाम् ।पालिका स्यात्कुन्तलिका दध्यादिच्छेदिनी हि या ।दर्विः कम्बिः खजाकाथ तर्दूर्ना दारुहस्तकः ॥ ६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कु (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.451 · p. 83
कांस्यदर्व्यां तु दर्वी स्यात्खजाका कम्भि(म्बि?)रित्यपि ।दारुदर्व्यां तु तर्दूः स्याल्लौहे करित इष्यते ॥ ४५१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1756 · p. 286
तर्दूश्च दारुहस्तकः काष्ठदर्व्यां निगद्यते ॥ १७५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.71 · p. 142
दर्वी कम्बी दर्विकम्बी खजाकापि खजा खजम् ।स्यात् काष्ठहस्तकस्तर्दूद्वितयं काष्ठहस्तके ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.26 · p. 309
श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ ।तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.50 · p. 311
समांसमीना शालाञ्ची हरिद्रा दर्वी सिध्रका ।तर्दूः स्रक् कणिका खल्ली मन्दुनी छर्दिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वी (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.63 · p. 223
दारुहस्तके तु तर्द्रूस्तर्दूरपि गलन्तिका ।आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्त (wrong syllable)
genderस्त्रीfem.