कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

तृतीयः काण्डः · अव्ययवर्गः

इति नानार्थवर्गः ॥ ३ ॥

आनन्देऽस्तु शुभं दिष्ट्या कटरे कटराद्भुते ।भूर्भुवः स्वस्त्रिभुवने मनागर्थे दरं स्मृतम् ॥ १ ॥
3.4.1 · p. 262
अनुष्टुप्
आमाङमभ्युपगमे नवरं केवलार्थकम् ।प्रातरर्थेऽनपयति क्षणमात्रे क्षणंक्षणम् ॥ २ ॥
3.4.2 · p. 263
अनुष्टुप्
क्षेमे पुण्ये च स्वस्ति स्यादुच्चैरर्थेऽट्ट कीर्तितम् ।वारंवारं शश्वदर्थे वारं वारेण चेष्यते ॥ ३ ॥
3.4.3 · p. 264
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
उताहो यदिवा यद्वा किं वा नेति समा इमे ।किन्त्वर्थेऽपितु यद्यर्थे सचेत्प्रात्क्वादिवाचकम् ॥ ४ ॥
3.4.4 · p. 264
अनुष्टुप्
अस्त्याह कालसामान्ये तिङन्तप्रतिरूपकम् ।सज्जं सहार्थे नेत्याह निषेधे यदि शेषगीः ॥ ५ ॥
3.4.5 · p. 265
अनुष्टुप्
विभाषान्यतरस्यां वा विकल्पार्थाः प्रकीर्त्तिताः ।ते इति स्यात्त्वयेत्यर्थे मयेत्यर्थे च मे इति ॥ ६ ॥
3.4.6 · p. 266
अनुष्टुप्