कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

प्रथमः काण्डः · पातालवर्गः

इति नाट्यवर्गः ॥ ७ ॥

अधोऽव्ययं स्यात्पाताले सप्तधा तदुदीरितम् ।अतलं सुतलं चैव वितलं च गभस्तिमत् ॥ १ ॥
1.7.1 · p. 23
अनुष्टुप्
तलं प्रतलपाताले विरोकं श्वभ्रमस्त्रियाम् ।तमसं तु निशाचर्म नीलपंकं रजोवलम् ॥ २ ॥
1.7.2 · p. 23
अनुष्टुप्
दिक्कण्टको वियद्भूतिः खत्वग्वृत्रोऽथ नागभित् ।दृम्भूः स्त्री स्याद्वलूताजगरावथ हलाहलः ॥ ३ ॥
1.7.3 · p. 23
अनुष्टुप्
ब्रह्मसर्पोऽश्वलाला च द्विमुखहिरहीरणिः ।राजाहिरलगर्दस्तु कालसर्पो महाविषः ॥ ४ ॥
1.7.4 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 मु (wrong syllable)
माण्डपुष्पस्तु भुजगो भवेत्कौक्कुटिकन्दलः ।गोनासगोनसौ हालाहलं हालहलं विषम् ॥ ५ ॥
1.7.5 · p. 24
अनुष्टुप्
अथाब्भक्षो द्विरसनः समकोलश्च भेकभुक् ।कुम्भीनसो मण्डली व गरलं जंगमं विषम् ॥ ६ ॥
1.7.6 · p. 24
अनुष्टुप्
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।कर्कोटिः कुलिकः शंख इत्यष्टौ नागनायकाः ॥ ७ ॥
1.7.7 · p. 24
अनुष्टुप्
तद्बन्धवस्तु कुमुदकम्बलाश्वतरादयः ।पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ॥ ८ ॥
1.7.8 · p. 25
अनुष्टुप्