All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
द्वितीयः काण्डः · शैलवर्गः
इति पुरवर्गः ॥ २ ॥
शैलः स्थावरधातुभृद्धरकुकीलौव्यङ्गकः सानुमा-ञ्जीमूतः पृथुशेखरश्च कटकी दन्ती नगो निर्झरी ।कुट्टारोऽथ हिमालयो नगपतिर्मेनाधवोमागुरूकैलासो गणपर्वतश्च रजतप्रस्थः कुबेराचलः ॥ १ ॥
2.3.1 · p. 35
शार्दूलविक्रीडितम्
हिरण्यनाभमैनाकसुनाभा हिमवत्सुते ।शैलाग्रे शिखरं शृङ्गं दन्तः प्राग्भारमित्यापि ॥ २ ॥
2.3.2 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
पूर्वाद्रिर्दिनमूर्धा स्यादस्ताद्रिश्चरमाचलः ।चन्दनाद्रिस्त मलयः कौञ्चः क्रौञ्चश्च माल्यवान् ॥ ३ ॥
2.3.3 · p. 35
अनुष्टुप्
महेन्द्रो मलयः सह्यः शुक्तिमान् गन्धमादनः ।विन्ध्यश्च पारियात्रश्च सप्तैते च कुलाचलाः ॥ ४ ॥
2.3.4 · p. 35
अनुष्टुप्
अश्मा पझरुकः पाटः पारटीटश्च मुन्मरुः ।घर्षणालः शिलापुत्रो गृहाश्मा गृहकच्छपः ॥ ५ ॥
2.3.5 · p. 36
अनुष्टुप्
गैरिकं तु वनालक्तं रक्तधातुर्गवेरुकम् ।प्रत्यश्मा गिरिमृच्चाथ शिलाधातुः शितोपलः ॥ ६ ॥
2.3.6 · p. 36
अनुष्टुप्
मृत्कोलो वर्णलेखा च कठिनी कक्खटी खटी ॥ ७ ॥
2.3.7 · p. 36