All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
लिङ्गादिसंग्रहः
इत्यव्यवर्गः ॥ ४ ॥
{लिङ्गादिसङ्ग्रहेऽनुक्तममरेणाऽभिदध्महे ।}स्त्रियामाजिर्दरज्जातिः पूरुभाद्राः समाः शरत् ।सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥ १ ॥
4.1 · p. 267
अनुष्टुप्
पुंस्त्वे हाहा हूहू-र्ग्रन्थिः पाणिः कलिर्दृतिर्मौलि ।अञ्जलिङ्घ्रिः कुक्षिर्लावकलोकोत्तरासङ्गाः ॥ २ ॥
4.2 · p. 268
metre not recognised
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
4.3 · p. 269
अनुष्टुप्
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
4.4 · p. 269
metre not recognised
आनापजननाडीभ्यो युगमङ्गं पदं व्रणम् ।अनक्षे दुन्दुभिरथ बहुत्वेऽप्यसवो ग्रहाः ।सक्तवो वल्कजालाजा दाराः प्राणा दशा इति ॥ ५ ॥
4.5 · p. 270
अनुष्टुप्
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
4.6 · p. 271
वसन्ततिलकाmetre not read in every line
यकृत्कुहकसिध्मानि तीरं कशिपु जानु च ।धामार्द्धसारमित्राण्यङ्गदलन्यायबन्धुषु ॥ ७ ॥
4.7 · p. 272
अनुष्टुप्
पुन्नपुंसकयोर्दारुजीवातुस्थाणुसीधवः ।स्थाद्वास्तु हिङ्गु तितउ सानु कम्बु कमण्डलु ॥ ८ ॥
4.8 · p. 273
अनुष्टुप्
गोमयकुमुदबिम्बशङ्खाश्रमशैलसुवर्णतोरणाः ।नूपुरशिखरतूर्यनिर्य्यासगृहाङ्कुशबर्हिपल्लवाः ॥ ९ ॥
4.9 · p. 273
metre not recognised
व्रतदिनमासवर्षदलवल्कलकोटरषण्डचामराः ।चन्दनपद्मधर्मकोलाहलकिसलयदेहदोहदाः ॥ १० ॥
4.10 · p. 274
metre not recognised
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
4.11 · p. 275
गीतिःmetre not read in every line
आकाशकुञ्जकुतपौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः ।कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तबकसङ्क्रमपीठकानि ॥ १२ ॥
4.12 · p. 276
वसन्ततिलका
समरसरकरणविटपाङ्गारिकदैवतकूटागाराः ।प्रोथमुहूर्तदिवसफलकानिकाशनिदाघमुषलतिलकानि ॥ १३ ॥
4.13 · p. 277
उद्गीतिःmetre not read in every line
वल्मीकवृषणद्रोणगाण्डीवनिगडानि च ।मुकुलादि च विज्ञेयं शिष्टसन्दर्भतोपरम् ॥ १४ ॥
4.14 · p. 278
अनुष्टुप्
अथ स्त्रीपुंसयोः केलिर्मणिर्योनिर्मसिर्मुनिः ।मरीचिः शाल्मलिः स्वातिः श्रेणिर्मुष्टिस्तिथिः सृणिः ॥ १५ ॥
4.15 · p. 279
अनुष्टुप्
ऊर्म्मिर्गभस्तिरशनिवैपार्ष्णीषुधिराशयः ।वस्तिश्च किष्कुः कन्दुश्चरेणुतन्वीबाहवः ॥ १६ ॥
4.16 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गण्डूषगर्जजागर-भुजकीलज्वालवर्तकव्रीडाः ।उत्कण्ठशटवराटक-रभसाः स्त्रीत्वे तु टाबन्ताः ॥ १७ ॥
4.17 · p. 281
आर्या
शल्लको वृश्चिकः कीटः शारस्तूणो घटः कटः ।शफरो वेतसश्चामी स्त्रियां ङ्यन्ताः प्रकीर्त्तिताः ॥ १८ ॥
4.18 · p. 282
अनुष्टुप्
स्त्रीक्लीबयोरुडुर्दामा छर्द्दिर्ज्योतिः सदोर्च्चिषः ।सुखं लक्षं वणिज्यञ्च वडिशक्रोडपाटलम् ॥ १९ ॥
4.19 · p. 282
अनुष्टुप्
तारकं रसनं नीडमेते टाबन्तकाः स्त्रियाम् ।ङ्यन्तास्तु नगरास्थानस्थलानि पाटलं पुरम् ॥ २० ॥
4.20 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
त्रिलिङ्ग्यान्तु प्रतिसरस्फुलिङ्गनखरार्गलाः ।कन्दरं शृङ्खलं नालं वल्लूरफलमुस्तकाः ॥ २१ ॥
4.21 · p. 283
अनुष्टुप्
मण्डलं शलभं भल्लातकं कलक्षकदलौ ।मृणालामलकौ दाडिमश्च ङ्यन्ताः स्त्रियामिमे ॥ २३ ॥
4.23 · p. 285
अनुष्टुप्metre not read in every line
करणे ल्युट् त्रिषु यथा तस्य व्याख्यान इत्यदः ।सूत्रकृद्भाष्यकृत्कोसावनुमान इतीच्छति ॥ २४ ॥
4.24 · p. 285
अनुष्टुप्
इति लिङ्गादिसञहवर्गः ।
{दृष्टप्रयोगा ये शब्दाः प्रायस्त इह कीर्तिताः ।अप्रयुक्तास्तूत्पलिन्यादिदृष्टा अप्युपेक्षिताः ॥ २५ ॥}
4.25 · p. 285
अनुष्टुप्