All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
द्वितीयः काण्डः · भूमिवर्गः
इति वारिवर्गः ॥ १० ॥
इति सटीकत्रिकाण्डशेषे प्रथमः काण्डः समाप्तः ॥ १ ॥
अथ सटीकत्रिकाण्डशेषकोषस्य द्वितीयः काण्डः
भूर्भूतधात्री गिरिकर्णिकाब्धिद्वीपा समुद्राम्बरमेखला कुः ।क्षमाऽद्रिकीला च जगद्वहा च पुंसि स्मृतौ मध्यमलोकमर्त्यौ ॥ १ ॥
2.1.1 · p. 30
उपजातिः
सहा कान्ता गन्धवती रत्नगर्भा च मेदिनी ।स्वस्थली भारताख्यं तु वर्षं हैमवतं विदुः ॥ २ ॥
2.1.2 · p. 30
अनुष्टुप्
भारतं नरभूः किंपूरुषं हरिवर्षं ततः ।भद्राश्वमुत्तरकुरुर्हिरण्मयमिलावृतम् ॥ ३ ॥
2.1.3 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable)
केतुमालममूनि स्युर्भुवो वर्षाणि वै नव ।जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः ॥ ४ ॥
2.1.4 · p. 30
अनुष्टुप्
द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः ।लवणेक्षुसुरासर्पदधिदुग्धपयोमयाः ॥ ५ ॥
2.1.5 · p. 30
अनुष्टुप्
ऊषरं तुषवानू ब्रह्मावर्तस्तपोवटः ।कुरुक्षेत्रं प्रयोगश्च हिमाद्रिं विन्ध्यमन्तरा ॥ ६ ॥
2.1.6 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मध्यदेशोऽथ पुण्ड्राः स्युर्वरेन्द्री गौडनीवृतिः ।प्रभासः सोमतीर्थं स्यादन्तर्वेदी कुशस्थली ॥ ७ ॥
2.1.7 · p. 31
अनुष्टुप्
प्राग्ज्योतिषं कामरूपे तीरभुक्तिस्तु निच्छविः ।विदेहाश्चाऽथ काश्मीरे कीराः स्युः शास्त्रशिल्पिनः ॥ ८ ॥
2.1.8 · p. 31
अनुष्टुप्
तुरुष्काः खशयष्टक्का बाह्लिकाश्च त्रिगर्तकाः ।दशेरका मरुभुवो मालवाः स्युरवन्तयः ॥ ९ ॥
2.1.9 · p. 31
अनुष्टुप्
डाहलाश्चेदयश्चैद्याः कारुषास्तु बृहद्गृहाः ।यद्वस्तु दशार्हाः स्युः सात्वताः कुकुराश्च ते ॥ १० ॥
2.1.10 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 य (syllables merged)
ओड्रा उत्कलनामानो मगधाः कीकटा मताः ।वेलाकूलं तामलिप्तं तामलिप्ती तमालिका ॥ ११ ॥
2.1.11 · p. 31
अनुष्टुप्
एकचक्रं हरिगृहं शम्भुपुर्यथ वर्तनिः ।पूर्वदेशोऽथ साकेतमयोध्योत्तरकोशलाः ॥ १२ ॥
2.1.12 · p. 31
अनुष्टुप्
कुशस्थलं कान्यकुब्जं नागाह्वं हस्तिनापुरम् ।गजाह्वं हास्तिनं चाऽथ श्रावस्ती धर्मपत्तनम् ॥ १३ ॥
2.1.13 · p. 32
अनुष्टुप्
कुरुक्षेत्रं विनशनं कौशाम्बी वत्सपत्तनम् ।प्राजापत्यः प्रयागः स्याद्द्वारका वनमालिनी ॥ १४ ॥
2.1.14 · p. 32
अनुष्टुप्
द्वारवत्यब्धिनगरी विदेहामिथिले समे ।मथुरा तु मधूपघ्नं जित्वरी तु तपस्थली ॥ १५ ॥
2.1.15 · p. 32
अनुष्टुप्
वाराणसी तीर्थराजी विशालोज्जयिनी समे ।चम्पा तु मालिनी पुष्पपुरं पाटलिपुत्रकम् ॥ १६ ॥
2.1.16 · p. 32
अनुष्टुप्
देवीकोटो बाणपुरं कोटीवर्षमुषावनम् ।स्याच्छोणितपुरं चाथ योजनं मार्गधेनुकम् ॥ १७ ॥
2.1.17 · p. 32
अनुष्टुप्
क्रिमिशैलस्तु वल्मीकः शक्रमूर्धाऽथ सञ्चरः ।धरणः पिण्डलः सेतुः पन्थास्तु क्षुल्लमो वहः ॥ १८ ॥
2.1.18 · p. 32
अनुष्टुप्
वाटः पथश्च माथश्च खपुरन्तूर्ध्वगं पुरम् ।हरिश्चन्द्रपुरं शौभमुद्रङ्गः प्रतिमार्गकः ॥ १९ ॥
2.1.19 · p. 33
अनुष्टुप्
त्रङ्गा त्रङ्गो निर्मुटस्तु पण्याजीवकचङ्गलौ ।पुंसि हट्टक्रयारोहौ जन्यं ग्राममुखं च तत् ॥ २० ॥
2.1.20 · p. 33
अनुष्टुप्
स्यादभिस्यन्दनगरं शाखानगरमित्यपि ।शासनं धर्मकीलः स्यान्मकुतिः शुद्रशासनम् ॥ २१ ॥
2.1.21 · p. 33
अनुष्टुप्
पट्टोलिका क्लृप्तकीला पांशुकीलं न कस्यचित् ।षड्भिर्यवैः स्यादंगुष्ठ एतैदशभिर्भवेत् ॥ २२ ॥
2.1.22 · p. 33
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 वैः (syllables merged)
वितस्तिः स्यादतो द्वाभ्यां हस्तः स्यात्तच्चतुष्टयम् ।दण्डो धन्वन्तरं तस्य सहस्रद्वितयेन तु ॥ २३ ॥
2.1.23 · p. 33
अनुष्टुप्
क्रोशस्ताभ्यान्तु गव्यूतिस्तद्द्वयं योजनं मतम् ।चतुरष्टशतग्रामान्तर्द्रोणमुखकर्वटौ ॥ २४ ॥
2.1.24 · p. 33
अनुष्टुप्