कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

तृतीयः काण्डः · विशेष्यनिघ्नवर्गः

इति शूद्रवर्गः ॥ १० ॥

इति त्रिकाण्डशेषकोषस्य द्वितीयः काण्डः समाप्तः ॥ २ ॥

अथ सटीकत्रिकाण्डशेषकोषस्य तृतीयः काण्डः

क्षेमङ्करोऽरिष्टतातिः स्थान्मद्रङ्करशङ्करौ ।आमुष्यायणज्ञिातौ पुत्रान्नादः कुटीचकः ॥ १ ॥
3.1.1 · p. 81
metre not recognisedimpossible sign sequence: ुष्यायणज्ञिातौ पुतnearly अनुष्टुप्: pāda 3, syllable 4 य (wrong syllable)
स्थपुटं विषम सञ्चारजीवी शरणार्थकः ।अभिपन्नः शरणार्थी पाण्डुपृष्ठस्त्वलक्षणः ॥ २ ॥
3.1.2 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
उद्भटोड्डामरोऽत्ताला आविष्टः प्रेतवाहितः ।प्रेङ्खोलितस्तरलितस्तृषितस्तर्षितः सतृट् ॥ ३ ॥
3.1.3 · p. 81
अनुष्टुप्
ऊर्ध्वस्थोर्ध्वदमौ तुल्यौ ग्राम्यो ग्रामेयकः स्मृतः ।पराचीनः प्रतीपः स्यात्समीचीनः समञ्जसः ॥ ४ ॥
3.1.4 · p. 81
अनुष्टुप्
स्वस्थानस्थः परान्द्वेष्टि यः स गोष्ठश्च उच्यते ।दाता तु दारुर्मुचिरः स्याद्विदग्धस्तु नागरः ॥ ५ ॥
3.1.5 · p. 82
अनुष्टुप्
षिड्गो व्यलीकः षट्प्रज्ञः कामकेलिर्विदूषकः ।पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः ॥ ६ ॥
3.1.6 · p. 82
अनुष्टुप्
प्रघटाविच्छास्त्रगण्ढो मेधावी मेधिरः समौ ।युक्तं परिमिते भीमं त्वाऽभीले प्रश्लथः श्लथः ॥ ७ ॥
3.1.7 · p. 82
अनुष्टुप्
शिथिलोवोद आर्द्रः स्याच्चिरस्थो नायकः स्मृतः ।स्यादायःशूलिकस्तीक्ष्णकर्माशोचोनहङ्कृतिः ॥ ८ ॥
3.1.8 · p. 82
अनुष्टुप्
कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकः ।वाक्याभिधायी पुरुषः पृष्ठमांसाद उच्यते ॥ ९ ॥
3.1.9 · p. 82
अनुष्टुप्
भार्याटः स्वस्त्रियो दाताऽन्नार्थं दूषकपांसनौ ।धृष्णुर्धृष्णुग्दधृग्धृष्टो दशेरः सुप्तधातुकः ॥ १० ॥
3.1.10 · p. 82
अनुष्टुप्
देशकः शासिता शास्ता शिक्कुरव्यवसायवान् ।चकितः शङ्कितो भीतः प्रतियत्नः प्रयत्नवान् ॥ ११ ॥
3.1.11 · p. 83
अनुष्टुप्
आधार्मिकोऽधार्मिकः स्यात्प्रसृतान्तरितौ समौ ।कृपणो दृढमृष्टिः स्याद्देवयुर्धार्मिकः सुकृत् ॥ १२ ॥
3.1.12 · p. 83
अनुष्टुप्
मनःस्मयो मनोज्ञः स्थाच्चक्षुष्यः प्रियदर्शनः ।लडहं भद्रकं न्युङ्खं लगडं चारुबन्धुरः ॥ १३ ॥
3.1.13 · p. 83
अनुष्टुप्
भट्टारो भगवान्पूज्यः शक्रप्रतिबलौ समौ ।पटुः पाटविको धूर्तः स्थगस्तीक्ष्णस्तु राजघः ॥ १४ ॥
3.1.14 · p. 83
अनुष्टुप्
सम्बन्धी गुणवान्संयुङ्मित्रयुर्मित्रवत्सलः ।धर्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि ॥ १५ ॥
3.1.15 · p. 83
अनुष्टुप्
षट्सु प्रज्ञाऽस्ति यस्यौच्चैः स षट्प्रज्ञ इति स्मृतः ।मध्यस्थस्तु निसृष्टः स्याद्भग्नपृष्ठस्तु सम्मुखः ॥ १६ ॥
3.1.16 · p. 83
अनुष्टुप्
स्यात्कथङ्कथिकः प्रष्टा विचक्षुर्विमनाः स्मृतः ।प्रतारितो व्यंसितः स्यात्प्रोथस्तु प्रथितो मतः ॥ १७ ॥
3.1.17 · p. 84
अनुष्टुप्
माशब्दिकः प्रतिषेद्धा जडमातृसुखौ समौ ।प्राणं पुराणं भिन्नं तु व्यवच्छिन्नं विशेषितम् ॥ १८ ॥
3.1.18 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते ।तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः ॥ १९ ॥
3.1.19 · p. 84
अनुष्टुप्
निःसन्धिश्च निवातश्च समूढं शोधितं समे ।स्यादागन्तुकमाहार्यं समे पक्त्रिमपाकिमे ॥ २० ॥
3.1.20 · p. 84
अनुष्टुप्
कोमलं पेलवं पापे त्वधमापसदौ धवः ।रोमाञ्चितो हृष्टरोमा अजानेयस्तु निर्भयः ॥ २१ ॥
3.1.21 · p. 84
अनुष्टुप्
अन्यसाधारणं त्वावेशिकं प्रातिस्विकं च तत् ।भिन्नकः क्षपणोऽह्नीको बौद्धो वैनायकः स्मृतः ॥ २२ ॥
3.1.22 · p. 84
अनुष्टुप्
और्ध्वश्रोतसिकः शैवः कौल आन्वयिकः स्मृतः ।पञ्चार्थिकः पाशुपतश्चिद्रूपः स्फूर्तिमान्मतः ॥ २३ ॥
3.1.23 · p. 85
अनुष्टुप्
प्राज्ञ उद्घटितज्ञः स्याच्छंयुशंवशुभंयवः ।गौरवितात्यार्यमिश्राः श्लाघ्यास्तत्राभवन्मुखाः ॥ २४ ॥
3.1.24 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
स्याद्देवानांप्रियः क्षेपे हतको बन्धुदुग्धवत् ।अणुः कनीयानाल्पिष्टः पिण्डितं गुणितं हतम् ॥ २५ ॥
3.1.25 · p. 85
अनुष्टुप्
खट्वारूढोविनीतः स्यान्मरालमसृणे समे ।प्राञ्जलः प्रगुणोऽजिह्मः प्रणाय्यः साध्वनिन्दितौ ॥ २६ ॥
3.1.26 · p. 85
अनुष्टुप्
त्वं त्वद्भिन्नं चान्यतरदपष्ठुलमपष्ठु च ।करम्बितं च खचितं रूषितं त्ववगुण्ठितम् ॥ २७ ॥
3.1.27 · p. 85
अनुष्टुप्
स पात्रेसमितोऽन्यत्र भोजनान्मिलितो न यः ॥ २८ ॥
3.1.28 · p. 86