कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अः

aḥ

In 2 kośas: 0 synonym verses, 7 as a nānārtha head word.

शब्दरत्नावली Śabdaratnāvalī · मथुरेश अव्ययवर्गप्रकाशः Śabdaratnāvalī 8.2 · p. 299
लृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे ।ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात अः Tantrābhidhāna 2.17.53 · p. 10
अः कण्ठको महासेनः कला पूर्णामृता हरिः ।इच्छा भद्रा गणेशश्च रतिर्विद्या सुखं मुखम् ॥ ५३ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात अः Tantrābhidhāna 2.17.54 · p. 10
द्विबिन्दू रसना सोमोऽनिरुद्धो दुःखसूचकः ।द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिर्निशाकरः ॥ ५४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात अः Tantrābhidhāna 2.17.55 · p. 10
-----------------------------------सुन्दरी सुयशानन्ता(न्दा) गणनाथो महेश्वरः ॥ ५५ ॥
अनुष्टुप्metre not read in every line
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.5 · p. 23
अं स्याच्च परमं ब्रह्म अः स्याद्देवो महेश्वरः ।कः प्रजापतिरुद्दिष्टो को वायुरिति शब्दितः ॥ ५ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.17 · p. 42
कार्तिकेयोऽनिरुद्धश्च शिल्पाभिज्ञो रमापि च ।सृष्टिः संहारकर्त्ता च विषं च अः-स्वरः स्मृतः ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)