कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सर्ग

sargaपुं · masc.

In 15 kośas: 20 synonym verses, 8 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.252 · p. 15
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.17 · p. 52
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.62 · p. 445
सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः ।उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.16 · p. 67
अवान्तरकथापूर्तौ सर्गोऽध्यायः समार्थकौ ।आख्यानसंज्ञकास्ते स्युर्महाकाव्यगता यदि ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.134 · p. 89
सर्गोर्थ(था?)ध्यवसायः स्यात्सूत्रतन्तुः प्रगल्भता ।समर्थता शूरता च प्रौढिः स्त्री कियदेतिका ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.265 · p. 85
स्वरूपं सहजो रूपतत्त्वं सर्गो निसर्गवत् ।प्रीतौ प्रेम स्नेहहार्दे समाधाववधानता ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.123 · p. 46
स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः ।सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.364 · p. 47
विचारणा तु मीमांसा सर्गस्तु प्रतिसर्गकः ।तथा वंशश्च वंशानुवंशचरितसंज्ञकम् ॥ ३६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 श (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.372 · p. 48
अध्यायोऽङ्कस्तथोच्छवासः सर्गः प्रमुखमत्र स्यात् ।ग्रन्थस्यावयवाः प्रोक्ताः काव्यादौ यत्र कुत्रचित् ॥ ३७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2502 · p. 405
धर्मः शीलं स्वभावश्च सर्गश्चापि निसर्गवत् ।एतन्नामानि मन्यन्ते स्वरूपस्य बुधैर्भुवि ॥ २५०२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.358 · p. 25
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.85 · p. 176
सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः ।उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.6 · p. 249
अमानस्यमामनस्यम्, चर्चा चर्चो विचारणा ।स्वभावे निसर्ग-सर्गौ पश्चात्तापोऽनुतापवत् ॥ ६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable); pāda 3, syllable 4 नि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.271 · p. 37
विचिकित्सा तु संशीतिर्विशयः संशयः समौ ।संदेहद्वापरौ चाथ सर्गो निर्णयनिश्चयौ ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2320 · p. 282
तर्कसंपर्कगल्वर्कालर्कोदर्कार्कमर्कटाः ।भर्गगर्गस्वर्गवर्गसर्गपुत्स(द्ग)लमुद्गराः ।दारबल्बजलाजायु(सु?)प्राणाः पुंसि च भूम्नि च ॥ २३२० ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.18 · p. 36
अनन्तश्च महासेनोऽनिरुद्धो रसव(ना)र्णकः ।कन्यास्तननिभः सर्गो विसर्गश्चान्तिमस्वरः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अः Tantrābhidhāna 8.17.18 · p. 55
सर्गो विसर्गो बिन्द्वन्तो महासेनाऽनिरुद्धकौ ।पूर्णामृता तथाऽनन्ता अः-स्वरस्तु वृषध्वजः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.24 · p. 90
सन्दानमनिरुद्धं च प्रकीर्णं गुत्सकस्तथा ।सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्कसङ्ग्रहाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.32 · p. 85
अध्यायः कामिकः काव्ये तूछ्वासः सर्ग इत्यपि ।प्रपाठकस्त्वाह्निकोऽथो अनुवाकश्च खण्डिका ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.1 · p. 192
रूपं तत्त्वं सतत्त्वं च स्वरूपं च सलक्षणम् ।सहजं निजमाजानं धर्मसर्गौ निसर्गवत् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.45
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास गश्लोकः Dharaṇikośa 3.3.12 · p. 26
सर्ग उत्साहनिर्माणनिश्चयाध्यायवाचकः ।निर्मोक्षे च स्वभावे च सर्गशब्दः प्रयुज्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.7 · p. 165
सर्गस्तु शीलोद्यमनिर्णयेषुसंसारकाव्यादिकथासमाप्त्योः ।मार्गो मृगादिप्रभवेऽन्यलिङ्गो-ऽध्वान्वेषणामासभिदासु पुंसि ॥ ७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.126 · p. 31
सर्गोऽध्याये स्वभावे च निर्माणे च समुज्झने ।उत्साहे निश्चये चाथ स्कन्धः समुदये चये ॥ १२६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास सकारादयः Paramānandīyanāmamālā 5.27.364 · p. 208
सर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि ।सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.29 · p. 193
शृङ्गी स्वर्णे विषामीनभेदयोर्मृषत्रौषधे ।सर्गोऽध्यायनिश्चयात्ममोक्षोत्साहादिसृष्टिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ष (wrong syllable); pāda 3, syllable 4 य (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2018 · p. 245
स्यात् त्रिष्वाकर्णिते क्लीबे शास्त्रावधृतयोः श्रुतम् ।सर्गस्तु निश्चयेऽध्याये स्वभावोत्साहसृष्टिषु ॥ २०१८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.62 · p. 219
राजसूयेन येनेष्टं राज्ञः शास्त्याज्ञया च यः ।सर्गास्तु सर्जनाध्यायस्वभावोत्साहनिश्चयाः ॥ ६२ ॥
अनुष्टुप्

सर्ग as a meaning in nānārtha verses