तिरस्कार
tiraskāraपुं · masc.In 9 kośas: 5 synonym verses, 1 as a nānārtha head word, 10 as a meaning of another word.
अत्याकारः परिभवो निकारश्च पराभवः ।अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ ७०४ ॥
अनुष्टुप्
genderपुंmasc.
तिरस्क्रिया तिरस्कारो न्यक्कारो निकृतिः स्त्रियाम् ।निकारः सूक्षणं क्षेपो रीढा सूर्क्षणसूर्क्षणे ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
तिरस्कारः परिभवो न्यक्कारश्च निकारवत् ।अत्याकारोऽपि धिक्कारः प्रतिध्वंसोऽवधीरणम् ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
स्यादवज्ञा परीहारः परिहारः पराभवः ।अपमानं परिभवस्तिरस्कारस्तिरस्क्रिया ॥
अनुष्टुप्
genderपुंmasc.
सा स्यादहमहमिका योऽहंकारः परस्परम् ।अत्याकारः परिभवस्तिरस्कारोऽप्यनादरः ॥ १७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
तिरस्कार as a meaning in nānārtha verses
- धरणिकोश आस्कन्दनआस्कन्दनं समाख्यातं तिरस्कारे रणेऽपि च । अभिमानश्च विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥ Dharaṇikośa 19.2.76
- कोषकल्पतरु परिभूपर्यभिभ्यां तिरस्कारे परा न्यग्भुव्यपक्षये । निरः परो विद्यतिः स्याद्वैराग्ये भन्दते पुनः ॥ ११ ॥ Koṣakalpataru 3.5.11
- कोषकल्पतरु अपक्षिपिपरातः स निषेधेऽपात्तिरस्कार उपात्तु सः । प्रस्तावेऽभिप्रत्यतिभ्यः परस्मैपदवान्भवेत् ॥ ६६ ॥ Koṣakalpataru 3.5.66
- कोषकल्पतरु आस्कन्द्आङो हयगतौ शोषे तिरस्कारे च संगरे । अभ्यवाभ्यामवाच्चैष रोधने परिकीर्तितः ॥ ३४ ॥ Koṣakalpataru 3.5.34
- नानार्थार्णवसंक्षेप निकारसहस्राशुतुरङ्गे तु निर्नरस्तुषपावके । निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ १०७ ॥ Nānārthārṇavasaṃkṣepa 3.2.107
- परमानन्दीयनाममाला आस्कन्दनआडम्बरस्तु संरम्भे बृंहितेऽपि च दृश्यते । आस्कन्दनं तिरस्कारे शोषेऽनीकेऽपि कथ्यते ॥ ५१ ॥ Paramānandīyanāmamālā 5.1.51
- शब्दरत्नावली निकारनिकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥ प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ Śabdaratnāvalī 7.27.81
- शब्दरत्नावली परिप्लवपरिप्लवस्तिरस्कारे विलासाकुलयोरपि । पारशवः शस्त्रभेदे द्विजाच्छुद्रासुतेऽपि च ॥ Śabdaratnāvalī 7.29.39
- शब्दरत्नाकर निकारआज्ञायामपि निर्देशो निषधोऽनलभूभृतोः । निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥ Śabdaratnākara 4.1.2111
- वैजयन्ती निकारनरेन्द्रो विषवैद्ये च नैगमस्तु श्रुतावपि । निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ ३७ ॥ Vaijayantī 7.1.37