निकार
nikāraपुं · masc.In 13 kośas: 16 synonym verses, 7 as a nānārtha head word, 7 as a meaning of another word.
निकृतस्तु विप्रकृतो न्यक्कारस्तु तिरस्क्रिया ।परिभावो विप्रकारः परापर्यभितो भवः ॥ ४४१ ॥अत्याकारो निकारश्च विप्रलब्धस्तु वञ्चितः ।
metre not recognised
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
अत्याकारः परिभवो निकारश्च पराभवः ।अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ ७०४ ॥
अनुष्टुप्
genderपुंmasc.
विसारश्चापि विसरनिकारनिवहा अपि ।तद्वन्निस्तर्हनिर्वापविकारेभ्यो णमित्यपि ॥ ३७२ ॥
अनुष्टुप्
genderपुंmasc.
आविधो विध्यते येन तत्र विष्वक्समे निघः ।उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
तिरस्क्रिया तिरस्कारो न्यक्कारो निकृतिः स्त्रियाम् ।निकारः सूक्षणं क्षेपो रीढा सूर्क्षणसूर्क्षणे ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
तिरस्कारः परिभवो न्यक्कारश्च निकारवत् ।अत्याकारोऽपि धिक्कारः प्रतिध्वंसोऽवधीरणम् ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
निकारो विप्रकारः स्यात्खलीकारोऽपि सम्मतः ।दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ ॥अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः ।मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः ॥अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
उकारश्च निकारश्च द्वौ धान्य[127b]क्षेपणार्थकौ ।खलेवाली स्त्रियां द्वंद्वे मेथिर्मेधिरुभे मते ।खले गोबन्धकाष्ठेऽथ धान्यादिक्षेपणार्थके ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निकारो विप्रकारश्चाऽत्याकाश्च तिरस्क्रिया ।कथितोऽभिभवश्चेति तिरस्कारार्थवाचकः ॥ ६७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
क्षेपो निकारो धिक्कारः पर्यायः स्यादनादरे ।अथ मन्दाक्षमन्दास्यं लज्जा लज्जनं ह्रीस्त्रपा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नं (wrong syllable)
genderपुंmasc.
निकारो विप्रकारश्च खलीकारो निगद्यते ।निकारे विप्रकारश्च खलीकारोपकारयोः(?) ॥
अनुष्टुप्
genderपुंmasc.
ध्यानादूर्ध्वप्रेरणादौ स्यादुत्कारो निकारवत् ।निगारोऽभ्यवहारे स्यादुद्गारो वमने स्वने ॥
अनुष्टुप्
genderपुंmasc.
न्यक्कारः सनिकारः स्तात्, जागरूके तु जागरी ।जागरिका, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ग (wrong syllable)
genderपुंmasc.
स्यादुत्कारो निकारश्च धान्यस्योत्क्षेपणार्थके ।विलक्षणं तु शून्यार्थे प्रसूतिः प्रसवः स्रवः ॥ १७३५ ॥
अनुष्टुप्
genderपुंmasc.
निकारः स्यात्परिभवे धान्यस्योत्किरणेऽपि च ।पिण्डारो महिषीपाले पिण्डारश्च द्रुमान्तरे ॥
अनुष्टुप्
रोगे विकारो विकृतावथेङ्गेव्यापार उक्तो नरि संस्थितौ च ।पुमान्निकारः परिभूतिवाचीतथैव धान्योत्किरणे प्रदिष्टः ॥ ४३ ॥
उपजातिः
सहस्राशुतुरङ्गे तु निर्नरस्तुषपावके ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ १०७ ॥
अनुष्टुप्
निकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च ।निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् ।प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥
अनुष्टुप्
आज्ञायामपि निर्देशो निषधोऽनलभूभृतोः ।निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥
अनुष्टुप्
धान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा ।नभश्चरौ पक्षिदेवौ पांशुला च निशाचरी ॥ ३६१ ॥
अनुष्टुप्
meaningsधान्योत्क्षेप
नरेन्द्रो विषवैद्ये च नैगमस्तु श्रुतावपि ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ ३७ ॥
अनुष्टुप्
निकार as a meaning in nānārtha verses
- कोषकल्पतरु यतियतिर्निकारे यतिनि स्मृतो ना स्त्री पाठविच्छेदनवाचकः स्यात् । शितिः स भूर्जे सितकृष्णयोर्ना तत्संयुते स्यान्निशिते पराभम् ॥ ४९ ॥ Koṣakalpataru 6.16.49
- कोषकल्पतरु निकृतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
- कोषकल्पतरु निह्नवतद्वद्वधूनां करणेऽथ न स्त्री पातालवाची गदितः प्रवीणैः । स्यान्निह्नवोऽविश्वसनेऽपलापे तथा निकारे मत आश्रवस्तु ॥ २२ ॥ Koṣakalpataru 6.29.22
- नानार्थार्णवसंक्षेप अरिष्टअञ्जनाभे वर्ण इति निकार इति चापठीत् । सुरायां सूतिकागेहे स्त्रियां त्वेकोऽपठीद्भिषक ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 4.18
- शब्दरत्नावली यतिनिकारयतिनोः पुंसि शान्ते विवतयोरपि ? ॥ Śabdaratnāvalī 7.16.41
- शब्दरत्नाकर निग्रहवियामो वियमो यामो यमः संयामसंयमौ । निग्रहस्तु निकारेऽपि विग्रहः समरेऽपि च ॥ १७१५ ॥ Śabdaratnākara 3.7.1715
- शब्दरत्नाकर निह्नवनिवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ । निह्नवस्तु निकारे स्यादविश्वासेऽप्यपह्नवे ॥ २११० ॥ Śabdaratnākara 4.1.2110