अनुकूल
anukūlaवि · adj.In 6 kośas: 4 synonym verses, 8 as a meaning of another word.
प्रतीपः प्रतिकूलः स्यान्नमसस्त्वनुकूलवत् ।अधृष्टः शारदः प्रोक्तस्तत्र शालीन इत्यपि ।विलक्षो विस्मयापन्ने वाञ्छापन्नश्च स स्मृतः ॥ ४० ॥
अनुष्टुप्
genderविadj.
निरर्गलं त्वबाधं स्यादुद्दामोच्छृङ्खले अपि ।अयन्त्रितानङ्कुशे चानुकूलं त्वनुलोमवत् ॥ १९ ॥
अनुष्टुप्
genderविadj.
अनुलोमोऽनुकूलः स्यादनूचीनस्तदर्थकः ।प्रसव्यं प्रतिकूलार्थमपसव्यमपष्ठु च ॥ १६८२ ॥
अनुष्टुप्
genderविadj.
प्रतीपं प्रतिकूलं स्यादनुकूलं विपर्यये ।अनुलोममनूचीनं प्रतिलोमं विपर्यये ॥ १२७ ॥
अनुष्टुप्
genderविadj.
अनुकूल as a meaning in nānārtha verses
- धरणिकोश प्रसव्यब्राह्मण्यं ब्राह्मणत्वे स्यात्समूहे च द्विजन्मनाम् । प्रसव्यं कविभिः प्रोक्तं प्रतिकूलानुकूलयोः ॥ Dharaṇikośa 25.2.36
- धरणिकोश प्राध्वम्हुं वितर्के परिप्रश्ने किंशब्दः प्रश्नतर्कयोः । कामं प्रकामेऽनुमतौ प्राध्वं नर्मानुकूलयोः ॥ Dharaṇikośa 34.15.2
- कोषकल्पतरु प्रसव्यउक्तं प्रसव्यं ह्यनुकूलवाचि प्रतीपवाचि त्वपरस्य लिङ्गे । प्रणाय्य उक्तोऽप्यभिलाषहीने- ऽप्यसम्मते चाथ मुनौ च बिल्वे ॥ ७४ ॥ Koṣakalpataru 6.26.74
- नानार्थार्णवसंक्षेप प्रसव्यअसम्मते च निष्कामे प्रसव्यं पुनरुच्यते । प्रतिकूलेऽनुकूले च सव्यदक्षिणयोरपि ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 3.4.38
- शब्दरत्नावली प्रसव्यआचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥ प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥ प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ Śabdaratnāvalī 7.26.44
- शब्दरत्नावली उदारउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59
- शब्दरत्नावली उपग्रहउपनाहो व्रणालेपपिण्डे वीणानिबन्धने । उपग्रहोऽनुकूले स्यादुपयोगे च वन्दिनि ॥ Śabdaratnāvalī 7.33.30
- शब्दरत्नावली प्राध्वम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50