कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपष्ठु

apaṣṭhuवि · adj.

In 12 kośas: 13 synonym verses, 5 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.143
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.756 · p. 87
वामं सव्यं विदुः प्राज्ञा अपसव्यं च दक्षिणम् ।प्रतिकूलानुकूलार्थे अपष्ठु त्वनपष्ठु च ॥ ७५६ ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.144 · p. 230
निरर्गलमबाधं स्यात्प्रसव्यं प्रतिकूलकम् ।अपसव्यमपष्ठु स्यादपष्ठुलमपि क्वचित् ॥ १४४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.1 · p. 405
कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः ।आमतिः समयः पीयुरथ वास्रस्तु वासरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.21 · p. 24
अपष्ठ्वव्ययमत्राथ सव्यं स्याद्वाममङ्गकम् ।दक्षिणं त्वपसव्यं स्यात्संबाधः पुंसि संकटम् ॥ २१ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.17 · p. 121
आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे ।निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते ।क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः ।रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् ।चटु चाटु प्रिये ********** ।तु-पुनर्वैवमेवाद्धा षण्निर्द्धारणवाचकाः ।शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् ।आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.348 · p. 95
सरूपस्तु सवर्णोऽपि प्रतिबिम्बं प्रतिच्छन्दः ।अपष्ठुरं विलोमं च प्रतिकूलमपष्ठु च ॥ ३४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च्छ (wrong syllable)
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.703 · p. 118
सव्यं वामशरीरे स्यादपसव्यं तु दक्षिणे ।सव्ये तु पष्ठु संप्रोक्तमपसव्ये त्वपष्ठु च ॥ ७०३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2664 · p. 430
विलोमञ्च प्रसव्यञ्च प्रतीपं चाप्यपष्ठु वै ।वामं च नव नामानि प्रतिकूलस्य सन्ति वै ॥ २६६४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.43 · p. 166
निरर्गलमबाधं स्यात् द्वयं बाधाविवर्जिते ।प्रतिकूले प्रसव्यं स्यादपसव्यमपष्ठु च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1682 · p. 202
अनुलोमोऽनुकूलः स्यादनूचीनस्तदर्थकः ।प्रसव्यं प्रतिकूलार्थमपसव्यमपष्ठु च ॥ १६८२ ॥
अनुष्टुप्
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.27 · p. 85
त्वं त्वद्भिन्नं चान्यतरदपष्ठुलमपष्ठु च ।करम्बितं च खचितं रूषितं त्ववगुण्ठितम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.8 · p. 192
प्रतिकूलानुकूलार्थे अपष्ठुरमपष्ठु च ।पृष्ठमांसादनं पश्चाद्गतस्यार्थस्य गर्हणम् ॥ ८ ॥
अनुष्टुप्
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास ठान्ताः Dharaṇikośa 34.5.1 · p. 235
अपष्ठु निरवद्यं स्यादपष्ठु शोभनं स्मृतम् ।
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.86 · p. 129
शम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने ।अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.62 · p. 187
भेले लघिष्ठोऽप्युदितस्त्वपष्ठुःकालेऽपसव्ये तु विशेष्यलिङ्गः ।कक्षान्तरे भूमिपतेः प्रकोष्ठःस्यात्कूर्पराधो वितते करे च ॥ ६२ ॥
इन्द्रवज्रा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ठान्ताः Śabdaratnāvalī 7.12.9 · p. 204
अपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः ।अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.20 · p. 300
सुष्ठु प्रशंसनेऽत्यर्थे दुष्ठु निन्दाप्रशंसयोः ।अपष्ठु शोभनार्थे स्यान्निरवद्ये च तद्भवेत् ॥
अनुष्टुप्