कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

सामान्यकाण्डः · अर्थवल्लिङ्गाध्यायः (2/2)

समं समानं सविधं सदृक्षं सदृशं सदृक् ।तुल्यं सवर्णं शब्देभ्यः परे स्युः प्रतिमा प्रभा ॥ १२१ ॥
5.4.121 · p. 211
अनुष्टुप्
आभा प्रख्योपमाभिख्या प्रकारः सन्निभं निभम् ।निकाशाद्याश्च साम्यार्थाः समे स्युः शब्दतः पराः ॥ १२२ ॥
5.4.122 · p. 211
अनुष्टुप्
परस्परं स्यादन्योऽन्यमितरेतरमित्यपि ।वक्रं वृजिनमाविद्धमूर्मिमत् कुञ्चितं नतम् ॥ १२३ ॥
5.4.123 · p. 211
अनुष्टुप्
अरालं कुटिलं भुग्नमवक्रे प्रगुणोऽप्यृजुः ।सत्वरं त्वरितं तूर्णमरं क्षिप्रं लघु द्रुतम् ॥ १२४ ॥
5.4.124 · p. 211
अनुष्टुप्
अजिरं चपलं शीघ्रमविलंबितमाशु च ।विरलं तनु विश्लिष्टमघनं तलिनं तथा ॥ १२५ ॥
5.4.125 · p. 211
अनुष्टुप्
निबिडं निबिरीसं स्यात् घनं सान्द्रं निरंतरम् ।विकटं तु विरूपं स्यात् संबाधः संकटः समौ ॥ १२६ ॥
5.4.126 · p. 211
अनुष्टुप्
प्रतीपं प्रतिकूलं स्यादनुकूलं विपर्यये ।अनुलोममनूचीनं प्रतिलोमं विपर्यये ॥ १२७ ॥
5.4.127 · p. 211
अनुष्टुप्
अव्ययीभावोऽनुपदमन्वगन्वक्षमित्यपि ।एकसर्गोऽनन्यवृत्तिरेकाग्रैकायनैकगम् ॥ १२८ ॥
5.4.128 · p. 211
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वोऽ (wrong syllable)
अप्येकतान एकान्तोऽप्येकायनगतोऽपि च ।साधारणं तु सामान्यं मोघं व्यर्थमपार्थकम् ॥ १२९ ॥
5.4.129 · p. 211
अनुष्टुप्
नित्यानवरताजस्रसतताश्रांतसंतताः ।अनारतं चाविरतमसक्तं चानिशं नपुम् ॥ १३० ॥
5.4.130 · p. 211
अनुष्टुप्
अतिमात्रेऽतिमर्यादमतिवेलातिमानकम् ।भृशमत्यन्तमत्यर्थमधिकोद्गाढनिर्भरम् ॥ १३१ ॥
5.4.131 · p. 211
अनुष्टुप्
तीव्रं तु गाढमेकान्तं नितान्तं दृढबाढवत् ।वशेऽनर्गलमुद्दाममुच्छृंखलमयन्त्रितम् ॥ १३२ ॥
5.4.132 · p. 212
अनुष्टुप्
परोक्षेऽतीन्द्रियोऽध्यक्षप्रत्यक्षौ तु समक्षवत् ।सकाशं स्यात् सन्निहिते समन्तं तु समन्तिकम् ॥ १३३ ॥
5.4.133 · p. 212
अनुष्टुप्
प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ।सुन्दरं रुचिरं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ १३४ ॥
5.4.134 · p. 212
अनुष्टुप्
शोभनं सुषमं चारु हृद्यं चौक्षं मनोहरम् ।न्युंखं हारि प्रियं साधु लडहं च मनोरमम् ॥ १३५ ॥
5.4.135 · p. 212
अनुष्टुप्
अल्पं सूक्ष्ममणु स्तोकं दह्रं दहरमर्हकम् ।किञ्चिन्मात्रम्मितं दभ्रं श्लक्ष्णं तनु च पेलवम् ॥ १३६ ॥
5.4.136 · p. 212
अनुष्टुप्
अतिरिक्तोऽतिशयितो दृढः समधिकोऽधिकम् ।चतुरं पेशलं दक्षं कटु तूल्बणमुत्कटम् ॥ १३७ ॥
5.4.137 · p. 212
अनुष्टुप्
विशेषणं क्रियायाः स्युः समाद्याः क्ली च तद्यथा ।पुत्रं धत्ते सममिति नित्याद्यास्तु गुणस्य च ॥ १३८ ॥
5.4.138 · p. 212
अनुष्टुप्
नित्यं धत्ते सितो नित्यमिति द्रव्ये पुनस्त्रिषु ।उभयेऽपि यथा धत्ते समो नित्योऽर्थवानिति ॥ १३९ ॥
5.4.139 · p. 212
अनुष्टुप्
प्रथमं चरमं पूर्वमित्याद्यप्येवमुन्नयेत् ।समीपनिकटाभ्यग्राभ्यर्णाभ्याशान्तिमा इव ॥ १४० ॥
5.4.140 · p. 212
अनुष्टुप्
सदेशसविधासन्नसन्निकृष्टसवेशवत् ।उपकण्ठसमर्यादसवेधानि सनीडकम् ॥ १४१ ॥
5.4.141 · p. 212
अनुष्टुप्
उपान्ते विप्रकृष्टे तु दूरं व्यवहितं परम् ।भासुरं भविकं भव्यं कल्याणं श्वोवसीयसम् ॥ १४२ ॥
5.4.142 · p. 212
अनुष्टुप्
श्वः श्रेयसं शिवं भद्रं कुशलं सूनृतं शुभम् ।श्रेयश्चैते समीपाद्या धर्मे क्ली तद्वति त्रिषु ॥ १४३ ॥
5.4.143 · p. 212
अनुष्टुप्
सुखं दुःखं मलं छिद्रं किलासं सिध्ममर्मरौ ।रभसः पलितं श्वित्रमेतेऽपि त्रिषु धर्मिणि ॥ १४४ ॥
5.4.144 · p. 213
अनुष्टुप्