अन्तर्गत
antargataवि · adj.In 11 kośas: 9 synonym verses, 4 as a nānārtha head word.
genderविadj.
genderविadj.
संकीर्णाकीर्णके चाथ तते विसृतविस्तृते ।अन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥ १४६ ॥
अनुष्टुप्
genderविadj.
अ[174b]न्तर्गतं विस्मृतं स्यात्प्राप्त-प्रणिहिते समे ।प्रेङ्खोलितं प्रेङ्खितं च धुतं धूतं च कम्पितम् ॥ २९ ॥
metre not recognisednearly अनुष्टुप्
genderविadj.
genderविadj.
ग्रथिते ग्रन्थितं दृब्धं विस्तृते विसृतं ततम् ।विस्मृतेऽन्तर्गतं प्राप्ते प्राप्तं प्राणिहितञ्च तत् ॥
अनुष्टुप्
genderविadj.
शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे ।विदिते बुधितं बुद्धं, स्यन्ने स्नुतं स्रुतं स्मृतम् ॥ ७९ ॥
metre not recognised
genderविadj.
व्युत्पन्नः प्रहतः क्षुण्णः प्राप्तप्रणिहितौ समौ ।आहतो गुणितोऽथान्तर्गतं प्रस्मृतविस्मृतौ ॥ १६७२ ॥
अनुष्टुप्
genderविadj.
प्राप्ते प्रणिहितापन्नौ विस्मृतोंऽतर्गतेऽस्मृते ।संगूढं स्यात् संकलितं स्यन्नं रीणं स्रुतं स्नुतम् ॥ १०९ ॥
अनुष्टुप्
genderविadj.doubtful
अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ।अन्तर्गतं वदन्त्यार्या मध्यप्राप्तं च विस्मृतम् ॥
अनुष्टुप्
असम्पृक्तस्त्वसंस्पृष्टे रहस्यन्तर्गतः पुनः ।विस्मृतेऽन्तःप्रविष्टेऽथो अवकीर्णमिति ध्वनिः ॥ ११ ॥
अनुष्टुप्
अथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु ।अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् ।अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् ।अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् ।अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु ।अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)