कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिनीत

abhinītaवि · adj.

In 10 kośas: 7 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.743 · p. 31
गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् ॥ ७४२ ॥कल्याभ्रेषौ नयो न्याय्यं तूचितं युक्तसांप्रते ।लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥ ७४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.39
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम् ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.75 · p. 250
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ।न्याय्यं प्राप्तं चोचितं चेत्यष्टौ त्रिषु च सांप्रतम् ॥ ७५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.269 · p. 59
अभ्रष्टे भजमानं स्यादौपायिकमरन्दकम् ।अभिनीतं च नीतं च लभ्यं न्याय्यं महोत्तमम् ॥ २६९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1213 · p. 190
उचितं चाभिनीतं च युक्तं प्राप्तं च साम्प्रतम् ॥ १२१३ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.204 · p. 125
अथ न्याय्यमौपयिकं युक्तं लभ्यं क्रमोचितम् ।भजमानं चाभिनीतं… ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1308 · p. 159
लभ्यमौपयिकं न्याय्यं भजमानाभिनीतवत् ।युक्तं च विजनच्छन्ननिःशलाके विविक्तवत् ॥ १३०८ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.81
युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् ।कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.72 · p. 79
पारिजातः कल्पतरौ पारिभद्रतरावपि ।अभिनीतः स्मृतो न्याय्ये संस्कृतेऽमर्षवत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.48 · p. 225
अङ्गारितं दग्धपलाशकल्यु-द्गत्यो रथापावृतमात्मतन्त्रे ।छन्नेऽभिनीतस्त्रिषु संस्कृते स्या-न्न्यायेऽपि कोपिन्यथ साहसेऽपि ॥ ४८ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.2 · p. 23
अभिजातः कुलीने च न्याय्यपण्डितयोरपि ।अभिनीतः संस्कृते च न्याय्ये चामर्षवत्यपि ॥ २ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.153 · p. 223
अथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु ।अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् ।अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् ।अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् ।अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु ।अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश अभिधेयवल्लिङ्गाध्यायः Vaijayantī 8.4.1 · p. 275
अभिजातः कुलीने च न्याय्यपण्डितयोरपि ।अभिनीतः सुयुक्ते स्यादमर्षवति संस्कृते ॥ १ ॥
अनुष्टुप्