रहस्य
rahasyaक्ली · neut.In 15 kośas: 13 synonym verses, 3 as a nānārtha head word, 11 as a meaning of another word.
गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् ॥ ७४२ ॥कल्याभ्रेषौ नयो न्याय्यं तूचितं युक्तसांप्रते ।लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥ ७४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderक्लीneut.
विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।
अनुष्टुप्
genderविadj.
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
अनुष्टुप्
genderविadj.
त्रिष्वस्त्र्युपह्वरं क्लीबे रहस्यं च जनान्तिकम् ।एकान्तं केवलं छन्नमुपांशुरहसी उभे ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
जटादयः पदावृत्तिभेदा अन्तः पुनः श्रुतेः ।स्त्रियामुपनिषद्वेदो रहस्यं तत्र चान्तिमे [39b] ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
एकान्तिकं रहस्यं च रहोजन्म विशेष्यवत् ।विश्वासाश्वास-विश्रम्भ-प्रत्ययाः स्युः समार्थकाः ॥ ७३ ॥
अनुष्टुप्
genderविadj.
रहोऽनुरहसोपांशु रहस्यं च भिनत्ति कः ।कीनाशः कृपणो लुब्धो गृध्नुर्दीनोऽभिलाषुकः ॥ १७५ ॥
अनुष्टुप्
genderक्लीneut.
स मन्त्रस्त्वषडक्षीणो यत्तृतीयाद्यगोचरः ।एकान्तालोचनं मन्त्रो रहस्यं गुह्यमुच्यते ॥ ३६१ ॥
अनुष्टुप्
genderक्लीneut.
उपांशु चाव्ययः शब्दो रहस्यं रहसि स्थितम् ।यथोक्तधर्मभ्रंशे तु भ्रेष इत्यभिधीयते ॥ २६७ ॥
अनुष्टुप्
genderविadj.
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
छन्नं गुह्यं निश्शलाकं रहः क्लीबोऽथवाव्ययम् ।गुह्यं रहस्यमित्येतावप्रकाश्येऽपि वस्तुनि ॥ १२० ॥
अनुष्टुप्
genderविadj.
रहस्या तु नदीभेदे स्त्रियां त्रिस्तु रहोभवे ।रवणस्तु पुमाञ्छन्दे षटोलाख्यलतान्तरे ॥ १४९६ ॥
अनुष्टुप्
meaningsरहोभव
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
meaningsगोपनीय
रहस्य as a meaning in nānārtha verses
- कोषकल्पतरु द्वंद्वपक्वं विनाशोन्मुखपाकभाजो- र्द्वंद्वं रहस्ये मिथुने च युग्मे । भवेद्द्वयांतं कलहे समास- भेदे तु पुंसीति वदन्ति सन्तः ॥ ६ ॥ Koṣakalpataru 6.29.6
- नानार्थार्णवसंक्षेप आगस्आष्ट्रं तु रश्मावाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 2.3.12
- नानार्थार्णवसंक्षेप द्वन्द्वन स्त्री भागेऽथ ना द्वन्द्वः समासे चार्थचोदिते । नृशण्डस्तु युधि क्ली तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.577
- नानार्थार्णवसंक्षेप उपनिषद्रहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि । रहसीत्यपरे प्राहुः प्रथमर्तौ च योषिताम् ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 6.16
- नानार्थार्णवसंक्षेप अवस्करअवस्करस्तु विष्ठायां गुह्ये चाथो धनञ्जयः । रहस्य इत्यभाषिष्ट वयं तु ब्रूमहे परम् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 6.20
- शब्दरत्नावली द्वंद्वद्वंद्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥ Śabdaratnāvalī 7.29.9
- शब्दरत्नाकर रहस्चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ । रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥ Śabdaratnākara 4.1.1987
- त्रिकाण्डशेष उपनिषद्अर्बुदो रुजि सङ्ख्यायामामोदो गन्धहर्षयोः । रहस्ये स्यादुपनिषत्समीपसदनेऽपि च ॥ २०३ ॥ Trikāṇḍaśeṣa 3.3.203
- वैजयन्ती रहस्रहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे । रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥ Vaijayantī 6.3.27
- वैजयन्ती मिथस्मुहुः क्षणेऽनुक्षणे च मिथोऽन्योन्यरहस्ययोः । यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २७ ॥ Vaijayantī 8.7.27
- वैजयन्ती उपांशुरहस्येऽर्थ उपांशु स्यादश्रुतोच्चारणेऽपि च । परितोऽन्तिके सर्वतोऽर्थे पूर्वेद्युः प्रत्युषेऽपि च ॥ ३२ ॥ Vaijayantī 8.7.32