कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विविक्त

viviktaक्ली · neut.

In 13 kośas: 10 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.525 · p. 31
रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् ॥ ७४१ ॥विविक्तविजनैकान्तनिःशलाकानि केवलम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.36
विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.88 · p. 98
विकाशोऽपि च वीकाशोऽवकाशश्च प्रकाशवत् ।विविक्तविजनच्छन्ननिःशलाकाप्रकाशकाः ॥ ८८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.362 · p. 146
छन्नं रहो विविक्तं चैकान्तं विजनं च तत् ।न्याय्यं समञ्जसं देश[80]रूपाभ्रेषौ नयः पुनः ॥ ३६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.266 · p. 58
मन्त्रालोचनदेशे तु विविक्तो विजनोऽपि च ।निःशलाकश्च छन्नश्च रहः सान्तोऽप्यलिङ्गकः ॥ २६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.91 · p. 28
निद्रा तन्द्रा प्रमीला च स्वापः संवेशसंलयौ ।उपांशुश्छन्नमेकान्तं विविक्तं विजनं रहः ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1211 · p. 189
एकान्तं केवलं छन्नं विविक्तं विजनं तथा ।उपह्वरं रहश्चैव निशलाकं निगद्यते ॥ १२११ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.201 · p. 125
त्रिषु च्छन्ननिःशलाकविविक्तविजना अपि ॥
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1308 · p. 159
लभ्यमौपयिकं न्याय्यं भजमानाभिनीतवत् ।युक्तं च विजनच्छन्ननिःशलाके विविक्तवत् ॥ १३०८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.119 · p. 210
व्रीहिणो व्रीहिमन्तः स्युर्यवमन्तो यवान्विताः ।निर्जने स्थान एकान्तं विविक्तं विजनं तथा ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.82
विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.24 · p. 85
विविक्तं रहसि ख्यातमसंपृक्तपवित्रयोः ।विवेकसहि[45]ते पुंसि विविक्तः सद्भिरिष्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.100 · p. 218
त्रिष्वस्फुटेऽथ मुक्ते विवेकयुक्तेऽप्यसंपृक्ते ।परवद्विविक्तमुक्तं द्वितयोनं तद्रहोवाचि ॥ १०० ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.52 · p. 45
तथा विकारापन्ने च बीभत्सेऽथ विविक्तवाक् ।निर्जने च पृथग्भूते शुद्धे चापि विचारिते ॥ ५२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.53 · p. 45
असम्बाधेऽथ विच्छिन्नं समालब्धे द्विधाकृते ।विरब्धं निभृते शस्ये तथा विश्वसितेऽपि च ॥ ५३ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.134 · p. 222
विविक्तं निर्जने पूते विवेकापृक्तयोस्त्रिषु ।विहस्तः पुंसि पण्डे स्याद् व्याकुले निष्करे त्रिषु ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.24 · p. 256
विगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ ।विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्पृ (wrong syllable)

विविक्त as a meaning in nānārtha verses

  • कोषकल्पतरु उपांशुउपांशुरुक्तो जपभेदकेऽथा- व्ययं विविक्तेऽथ यवासके स्यात् । स्यात्कण्टकार्यां परवत्कठोरे स्पर्शे विपाशा तु नदीविभेदे ॥ २५ ॥ Koṣakalpataru 6.30.25
  • कोषकल्पतरु रहस्सहो बले ज्योतिषि मार्गशीर्ष- हेमन्तयोः पुंसि भवेत्तथैव । रहो विविक्ते सुरते च तत्त्वे रहं च तद्वत्प्रवदन्ति सन्तः ॥ ९ ॥ Koṣakalpataru 6.31.9