निषङ्ग
niṣaṅgaपुं · masc.In 15 kośas: 12 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१ ॥शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखड्गाः ।तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ ७८२ ॥
metre not recognised
genderपुंmasc.
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
तूणीरमुपासङ्गस्तूणं तूणी निषङ्ग इषुधिश्च ।बाणाश्रयः कलापः कार्मुककोटिर्भवेदटनिः ॥ ४६५ ॥
आर्या
genderपुंmasc.
निषङ्ग-तूणीर-कलाप-बाणा-वापा उपासङ्ग उपाश्रयश्च ।स्त्रीपुंसयोः स्यादिषुधिश्च केकि-छन्दं द्वि[121b]हीनं त्रितयेऽत्र तूणी ॥ २७ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
कलापे तु निषङ्गः स्यात्तूणीरशरधी समौ ।शराश्रय उपासङ्गतूणौ खड्गे कृपाणकः ॥ ३८६ ॥
अनुष्टुप्
genderपुंmasc.
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
तूणीरो बाणधिस्तूणः शरधिश्च शराश्रयः ।उपासङ्गो निषङ्गश्च कलापश्चेषुधिरपि ॥ १२८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
genderपुंmasc.
विषाक्ते सायके तीक्ष्नो लिप्तको दिग्ध इत्यपि ।उपासङ्गो निषङ्गश्च तूणीरइषुधिर्द्वयोः ॥
अनुष्टुप्
genderपुंmasc.
रोगरागादिना दुःखे क्लेश आदीनवास्रवौ ।मेलने सङ्गमः सङ्गो निषङ्गो मेल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् ।उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियौ ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
genderपुंmasc.
सायकाशयतूणीरनिषङ्गा अथ धन्विनाम् ।स्थानमालीढवैशाखप्रत्यालीढादि पञ्चधा ॥ १३३४ ॥
अनुष्टुप्
genderपुंmasc.
निषङ्ग as a meaning in nānārtha verses
- परमानन्दीयनाममाला धीधः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः । धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥ Paramānandīyanāmamālā 1.26
- परमानन्दीयनाममाला तूणीनवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे । तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥ Paramānandīyanāmamālā 5.15.223