कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · ढान्ताः

इति डान्तवर्गः ॥

ढकारो निर्गुणेऽपि स्याद् ढक्कायामपि कथ्यते ।
7.14.1 · p. 206
अनुष्टुप्
गूढं रहसि गुह्ये च क्लीबं स्यात्सम्बृते त्रिषु ॥
7.14.2 · p. 206
अनुष्टुप्
दृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः ।माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः ।बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥
7.14.3 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
वोढा ना भारिके मूढे परिनेतरि कुत्रचित् ।सोढा शक्रे भिन्नलिङ्गस्तितिक्षासंयुतेऽपि च ॥
7.14.4 · p. 207
अनुष्टुप्
अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ।आषाढो व्रतिदण्डे स्यान्मासे च मलयाचले ॥
7.14.5 · p. 207
अनुष्टुप्
आलीढः स्यात्पदन्यासभेदे चाप्यक्षिते त्रिषु ।उदूढः स्थूल ऊढे स्यादुपोटो निकटोढयोः ॥
7.14.6 · p. 207
अनुष्टुप्
प्रमीढो मूत्रिते मेघे प्रगाढो दृढकृच्छ्रयोः ।प्ररूढो जठरे बद्धमूले जातप्रवृद्धयोः ।आरूढः(?) सम्बले वहणौ भुग्ने सद्योजातेऽनुपस्थिते ॥
7.14.7 · p. 207
अनुष्टुप्