कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आवसथ्य

āvasathyaपुं · masc.

In 9 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.83 · p. 39
मठावसथ्यावसथाः स्युश्छात्रव्रतिवेश्मनि ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.38 · p. 12
अध्यानिसंभ्यो वासः स्याद्विश्रामोवसथाश्रयौ ।आवसथ्योऽपि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.39 · p. 73
परिणायः परिणयो वाधुक्यं दारकर्म च ।तस्मिन्काले गृहीतोग्निरावसथ्य उपासनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.80 · p. 77
दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः ।पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.39 · p. 123
बुद्धादेस्तु विहारोऽस्त्री चैत्यं गन्धकुटी स्त्रियाम् ।आवसथ्यं क्लीबमावसथः पुंसि मठस्त्रिषु ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.275 · p. 38
मठावसथ्यौ वासौकः स्वापगृहमुदीरितम् ।उटजः पर्णशाला स्याच्चैत्यं बौद्धजिनालये ॥ २७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1703 · p. 274
हर्म्यं स्याद्धनिनां गेहं मठ आवसथस्तथा ।आवसथ्यं भवेन्नाम छात्राणां व्रतिनाञ्च वा ॥ १७०३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.38 · p. 221
मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपकौ ।आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.106 · p. 14
हव्यवाहनशंस्याहवनीयाः पूर्वपावके ।सभ्यावसथ्यौ तत्पूर्वावग्नी त्रेतानलत्रये ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.25 · p. 11
सभ्यावसथ्यौ तत्पूर्वावायुः स्यात् पाशुबंधिकः ।पथिकृद्वर्त्महोमेषु पदहोमेष्वनीकवान् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.27 · p. 161
मठावसथ्यौ छात्रादिवासो वेण्ठं विटाश्रये ।कुटीरस्तु कुटी पल्ली क्षेत्रपल्ली तु गर्गरी ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.34 · p. 9
ज्ञेय आवसथे चाग्निभेदे चाहवनीयतः ।प्राग्देशस्थेऽथात्मयोनिः स्मरे स्मरहरेऽनिले ॥ ३४ ॥
अनुष्टुप्