आवास
āvāsaपुं · masc.In 11 kośas: 10 synonym verses, 3 as a meaning of another word.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderपुंmasc.
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अध्यानिसंभ्यो वासः स्याद्विश्रामोवसथाश्रयौ ।आवसथ्योऽपि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वासो निवासो निलयो निवेशःक्षयो निकाय्यावसथाश्रयाश्च ।प्राणन्त(?) आवास इहा[9a]लयः स्यात्संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
वसत्यावसथावासं स्थानं धामास्पदं पदम् ।निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
निकाय्यो नीलयो वेश्मालयो भवनमुच्यते ।धामावासो निवासोऽपि निशान्तं धिष्ण्यमाश्रयः ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
मन्दिरं सदनं सद्म निलयो भवनं गृहम् ।ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
आवसथस्तथाऽऽवास आलय आश्रयः क्षयः ।निवासो वेश्म निशान्तं निकाय्यश्च निकेतनम् ॥ १६९७ ॥
metre not recognised
genderपुंmasc.
स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा ।उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
सत्रं सार्त्रं वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः ।आवसथो वसितश्चोदवसितं न्याङ्युग्लयः ॥ ३५ ॥
metre not recognised
genderपुंmasc.
आवास as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्षितिनदीनगर्योर्नागानां भोगवत्यथ सङ्गरे । सङ्गे सभायां समितिः क्षयावासावपि क्षितिः ॥ ७० ॥ Amarakośa 3.3.70
- कोषकल्पतरु दधिअवस्थान्तरप्राप्तदुग्धे दधि स्या- च्छ्रियो वासवृक्षे तथावासवाचि । समाध्यन्तरे बोधिरश्वत्थवृक्षे समुद्रे पुनः स्यात्सरस्यां तथाब्धिः ॥ ६० ॥ Koṣakalpataru 6.20.60
- शब्दरत्नावली कोष्ठकोष्ठः कुशूले स्वीये च जठरावासमद्ययोः । गोष्ठी संलापसभयोः क्लीबे गोस्थानकेऽपि च ॥ Śabdaratnāvalī 7.12.5